तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 120, कुल 199 में से
संदर्भ में पढ़ेंन्यायबोधिनी-संस्कृत-कला १०३
न्या.बो. 'तत्करणम्'ति मूलस्थं पदं व्याख्यातुमाह—तत्करणमितीति । फलीभूता
पृ.२५. ये प्रत्यक्षानुमित्युपमितिशाब्दास्तेषां करणमित्यर्थः । प्रत्यक्षादीनां चतुर्णां
फलत्वोक्तिश्च इन्द्रिय, व्याप्तिज्ञान, सादृश्यज्ञान, पदज्ञानरूपसाधनजन्यत्वात्
सङ्गच्छते । यथार्थानुभवकरणानि प्रत्यक्षानुमानोपमानशब्दाः । तान्येव न्याये
चत्वारि प्रमाणान्युच्यन्ते । तेषां सामान्यलक्षणमाह—प्रत्यक्षादीति । विशेष-
लक्षणमत्र कथं नोक्तमत आह—एकैकेति ।
मूलोक्तकरणलक्षणं व्याख्यातुमाह—करणलक्षणमाहेति । मूललक्षणे
न्यूनतां परिजिहीर्षुः व्यापारवदिति निवेश्य व्याचष्टे—व्यापारवदिति ।
व्यापारवत्त्वे सति असाधारणत्वे च सति कारणत्वं करणलक्षणमित्यर्थः । यथा-
दण्डो घटं प्रति असाधारणकारणत्वात् भ्रमणरूपव्यापारवत्त्वाच्च करणं भवति ।
असाधारणत्वं किमित्याह—असाधारणत्वञ्चेति । कार्यताकारणे अपि लक्ष्यता-
विवेचनावसरे नाममात्रेण सङ्केतिते । कार्यं घटादिकं, कारणं दण्डादिकम्, कार्यता
घटनिष्ठा कारणता दण्डनिष्ठा । यथा पृथिवीनिष्ठाया लक्ष्यताया अवच्छेदकं
पृथिवीत्वं भवति तथा घटनिष्ठायाः कार्यताया अवच्छेदकं घटत्वं, दण्डनिष्ठायाः
कारणतायाश्चावच्छेदकं दण्डत्वं भवति । पूर्वोक्तप्रकारताविशेष्यतावत् कार्यता-
कारणतयोरपि निरूप्यनिरूपकभावो भवति । अर्थात् कार्यतानिरूपिता कारणता
भवति, कारणतानिरूपिता च कार्यता भवति । यदि कारणं न स्यात् तर्हि कस्य
कार्यं कथ्यते ? एवं यदि कार्यं न स्यात् तदा किं प्रति कारणं भवेत् ! तस्मात्
तयोरेकतरान्यतरनिरूपिता भवतीति युक्तम् । एवं यो धर्मो यस्या अवच्छेदकः
सा तद्धर्मावच्छिन्नेति पूर्वन्यायात् घटत्वं कार्यतायाः अवच्छेदकमतो घटनिष्ठा
कार्यता घटत्वावच्छिन्ना । तथा कार्यत्वातिरिक्तः—कार्यत्वभिन्नो यो घटत्वादि-
धर्मस्तदवच्छिन्ना या घटादिनिष्ठा कार्यता, तन्निरूपिता या कारणता, तच्छा-
लित्वस्य दण्डे सत्त्वात् घटं प्रति दण्डोऽसाधारणं कारणम् । तदेवोदाहरति—
यथेति । लक्षणं सङ्गमयति—कार्यत्वेति । दण्डेऽसाधारणं कारणत्वं वर्तत एव,
भ्रमणादिरूपव्यापारवत्त्वमपि वर्तते, तस्माद् दण्डः करणमित्याह—भ्रम्येति ।
असाधारणकारणलक्षणे कार्यत्वातिरिक्तेति विशेषणं दत्तम्, तत्रातिरिक्तपदा-
दानेन घटत्वादिपदादानेन च तदेव साधारणकारणस्य लक्षणं भवतीत्याह—
साधारणत्वमिति । कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वमिति
तल्लक्षणम् ।
अस्यायमाशयः—कार्यता विशेषरूपेण यथा घटे वर्तते तथा सामान्यरूपेण
कार्यमात्रे विद्यते । घटमात्रनिष्ठायाः कार्यताया अवच्छेदकं यथा घटत्वं तथा
कार्यमात्रनिष्ठायाः कार्यताया अवच्छेदकं कार्यत्वं वर्तते । तथा च कार्यत्वाव-
च्छिन्नकार्यतानिरूपितकारणताशालित्वं साधारणकारणत्वम् । ईश्वरोऽदृष्टम्