तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 119, कुल 199 में से
संदर्भ में पढ़ें१०२ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः
विशेष्यं रजतत्वाभाववदस्ति, रजतरूपं विशेष्यञ्च रङ्गत्वभाववदस्तीत्यपि निर्वि-
वादम् । यथा चात्र रङ्गरजतयोर्द्वयोरपि विशेष्यतया, तयोविशेष्ययोः रङ्गत्व-
रजतरूपप्रकारौ प्रति वैपरीत्येन सम्बन्धमभिप्रेत्य इदं समूहालम्बनं ज्ञानं
रजतत्वाभाववद्रङ्गविशेष्यकत्वे सति रजतत्वप्रकारकमस्ति, एवं रङ्गत्वभाववद्-
रजतविशेष्यकत्वे सति रङ्गत्वप्रकारकमस्ति, अतोऽतिव्याप्तिरिति । तदेवाह—
एतत्समूहालम्बनस्येत्यादिना सत्त्वादित्यन्तेन ।
न्या.बो. निष्कृष्टलक्षणस्य तु नातिव्याप्तिरित्याह—उक्तनिष्कर्ष इति । उक्त-
पृ.२४.प्रमात्मकसमूहालम्बनं ज्ञानं रङ्गे रङ्गत्वमवगाहते, एवं रजते रजतत्वमवगाहते ।
अतोऽत्र विशेष्यवैपरीत्याभिप्रायोऽशक्यः । अर्थात् रङ्गत्वप्रकारस्य रङ्गमेवात्र
विशेष्यम् एवं रजतत्वप्रकारस्य रजतमेव विशेष्यम् । तथा च रङ्गत्वनिष्ठा
प्रकारता रङ्गनिष्ठविशेष्यता निरूपिताऽस्ति, रङ्गश्च रङ्गत्वभाववान्नास्ति । एवञ्च
रङ्गत्वाभाववन्निष्ठविशेष्यता निरूपिता रङ्गत्वनिष्ठा प्रकारता नास्ति । तथा
रजतत्वनिष्ठा प्रकारता रजतनिष्ठविशेष्यता निरूपिता अस्ति । रजतञ्च रजतत्वा-
भाववन्नास्ति । एवञ्च रजतत्वनिष्ठा प्रकारताऽपि रजतत्वाभाववन्निष्ठविशेष्यता-
निरूपिता नास्ति । तस्मात् तदभाववन्निष्ठविशेष्यता निरूपिततन्निष्ठप्रकारता-
कत्वस्य अयथार्थानुभव लक्षणस्य रङ्गरजतयोः स्थले जायमाने 'इमे रङ्गरजते'
इति समूहालम्बने प्रमात्मकज्ञानेऽसत्त्वात् नातिव्याप्तिरिति भावः ।
तदेतत् सर्वमाह—तादृशप्रमाया इति । उदाहृतयथार्थज्ञानस्येत्यर्थः ।
रजतांशे रजतत्वावगाहित्वेन रजतत्वप्रकारताया रजतत्वाभाववद्रङ्गविशेष्यता-
निरूपितत्वाभावात्, एवं रङ्गांशे रङ्गत्वत्वावगाहित्वेन च रङ्गत्वप्रकारताया रङ्गत्व-
भाववद्रजतनिष्ठविशेष्यतानिरूपितत्वाभावान्नातिव्याप्तिरित्यन्वयः ।
अयथार्थानुभवस्य स्वयमप्युदाहरणमाह—यथेति । सुव्याख्यातमेतत् ।
सर्वत्र द्वैविध्यत्रैविध्याद्युक्तेः विभागपरतया मूलेऽपि चतुर्विधत्वोक्तिः
यथार्थानुभवविभागपरैवेत्याह—यथार्थानुभवं विभजते इति । विपूर्वकभज्-
धातोर्थः —स्वसमभिव्याहृतपदार्थतावच्छेदकव्याप्यमिथोविरुद्धयावद्धर्मप्रकारक-
बोधानुकूलव्यापाररूपः पूर्वमेव प्रतिपादितः । अत्रापि तत्समन्वयो यथा—स्वं
विपूर्वकभज्धातुः, तत्समभिव्याहृतं पदं—यथार्थानुभवपदं, तदर्थतावच्छेदकं—
यथार्थानुभवत्वम्, तद्व्याप्या मिथो विरुद्धाश्च यावन्तो धर्माः—प्रत्यक्षत्वानुमितित्वो-
पमितित्वशाब्दत्वधर्माः, तावद्धर्मप्रकारकोबोधाः—इदं प्रत्यक्षम्, इयमनुमितिः, इयमु-
पमितिरियं शाब्दबोध इति बोधाः, तादृशबोधानुकूलो व्यापारः—प्रत्यक्षानुमित्यु-
पमितिशाब्दभेदादिति वाक्यप्रयोगरूपः । स एवात्र विभागपदार्थ इत्यर्थः ।