तर्कभाषा (आचार्य केशवमिश्र - पं. विश्वेश्वर सिद्धान्तशिरोमणि कृत 'तर्करहस्य' हिन्दी व्याख्या सहित)
Tarkabhasha of Keshavamishra
आचार्य केशवमिश्र (व्याख्याकार: पं. विश्वेश्वर सिद्धान्तशिरोमणि) द्वारा
पृष्ठ 208, कुल 330 में से
संदर्भ में पढ़ेंसंग्रहः ] प्रामाण्यवादः १४३
हमने अपनी 'दर्शनमीमांसा' में 'प्रामाण्यवाद' के विषय का इस प्रकार
संग्रह किया है,
प्रामाण्यं किं स्वतो ज्ञाने परतो वा प्रमाणजे ।
स्वतो मीमांसकाः प्राहुः परतश्चेति तार्किकाः ॥ १ ॥
ज्ञानग्राहकग्राह्यत्वं स्वतस्त्वमत्र सम्मतम् ।
परतस्त्वं पुनर्भिन्नसामग्रीग्राह्यता तयोः ॥ २ ॥
मीमांसकाभिमतं स्वतःप्रामाण्यमुपपादयति—
जाते तावद् घटज्ञाने ज्ञातता जायते घटे ।
ज्ञातोऽसाविति ज्ञाता सा कारणं ज्ञानमाक्षिपेत् ॥ ३ ॥
एवं च ज्ञाततान्यथा-नुपपत्तिप्रसूतया ।
अर्थापत्त्याग्रहस्त्वाद्ये ज्ञानप्रामाण्ययोर्मतः ॥ ४ ॥
स्वतःप्रामाण्यस्याधारभूतां ज्ञाततामुपपादयति—
घट एव घटज्ञाने विषयो न पटः कुतः ।
आलोकादावतिव्याप्तेर्नोत्पत्तिस्तन्नियामिका ॥ ५ ॥
ज्ञातता ज्ञानजन्यैव विषयत्वे प्रयोजिका ।
अन्यथानुपपत्त्यास्य ज्ञातता च प्रसिद्ध्यति ॥ ६ ॥
अत्र तार्किकमतेन ज्ञाततां खण्डयति—
घटादौ ज्ञातताधर्मो नायं तार्किकसम्मतः ।
विषयत्वं घटादीनां स्वभावादेव तन्मते ॥ ७ ॥
अन्यथाऽनागतेऽतीते विषयत्वं न सम्भवि ।
धर्मिण्यविद्यमाने हि धर्मस्तत्र कथं भवेत् ॥ ८ ॥
ज्ञाततापि स्वज्ञानस्य विषयत्वं प्रपद्यते ।
ज्ञातताधारता तत्र मता किं वा न सम्मता ॥ ९ ॥
ज्ञातता ज्ञाततायां चेदपरापि प्रकल्प्यते ।
अविश्रान्तेः क्रमस्य स्यादनवस्था दुरुत्तरा ॥ १० ॥
अनवस्थाभयान्नो चेज् ज्ञाततान्तरकल्पना ।
ज्ञाततायाः कथञ्जु स्याद्विषयत्वं तया बिना ॥ ११ ॥
विषयत्वं च तस्याश्चेज् ज्ञाततान्तरमन्तरा ।
घटादीनां कथन्न स्याद्विषयत्वं तदन्तरा ॥ १२ ॥
ज्ञातो घटः प्रतीतिश्चेज् ज्ञाततायाः प्रसाधिका ।
दृष्टः कृतः प्रतीत्या स्युर्दृष्टताकृततादयः ॥ १३ ॥
१ दर्शनमीमांसा ५ ।