तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 281, कुल 294 में से
संदर्भ में पढ़ें२०० ] तन्त्रसार-अभिनवगुप्त [ आ. २२
कोणत्रयान्तराश्रितनित्योदितमङ्गलच्छदे कमले ।
नित्यावियुतं नालं षोडशदलकमलसन्मूलम् ॥
मध्यस्थनालगुम्फितसरोजयुगघट्टनक्रमादग्नौ ।
मध्यस्थपूर्णशशधरसुन्दरदिनकरकरौघसंघट्टात् ॥
त्रिदलारुणवीर्यकलासङ्गान्मध्येऽङ्कुरसृष्टिः ।
इति शशधरवासरपतिचित्रगुसङ्घट्टमुद्रया झटिति ॥
सृष्ट्यादिक्रममन्तःकुर्वंस्तुर्ये स्थितिं लभते ।
एतत्खेचरमुद्रावेशेऽन्योन्यं स्वशक्तिशक्तिमतोः ॥
पानोपभोगलीलाहासादिषु यो भवेद्विमर्शमयः ।
अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः ॥
अव्युच्छिन्नानाहतपरमार्थैमन्त्रवीर्यं तत् ।
गमनागमविश्रान्तिषु कर्णे नयने द्विलक्षमसम्पर्के ॥
तत्संमीलनयोगे देहान्ताख्ये च यामले चक्रे ।
कुचमध्यहृदयदेशादोष्ठान्ते कण्ठगं यदव्यक्तम् ॥
तच्चक्रद्वयमध्यगमाकर्ण्य क्षोभविगमसमये यत् ।
निर्वान्ति तत्र चैवं योऽष्टविधो नादभैरवः परमः ॥
ज्योतिर्ध्वनिश्च यस्मात् सा मान्त्री व्याप्तिरुच्यते परमा ।
एवं कर्मणि कर्मणि विदुषः स्याज्जीवतो मुक्तिः ।
तज्ज्ञः शास्त्रे मुक्तः परकुलविज्ञानभाजनं गर्भः ॥
शून्याशून्यलयं कुर्यादेकदण्डेऽनलानिलौ ।
शूलं समरसीकृत्य रसे रसमिव स्थितम् ॥
त्यक्ताशङ्को निराचारो नाहमस्मीति भावयन् ।
देहस्था देवताः पश्यन् ह्लादोद्वेगादि चिद्धने ॥
कर्णाक्षिमूखनासादिचक्रस्थं देवतागणम् ।
ग्रहीतारं सदा पश्यन् खेचर्या सिध्यति ध्रुवम् ॥