तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 280, कुल 294 में से
संदर्भ में पढ़ेंआ. २२ ] तन्त्रसार-अभिनवगुप्त [ १९३
अनुचक्रदेवतात्मकमरीचिगणपूरणाधिगतवीर्यम् ।
तच्छक्तितद्वदात्मकमन्योन्यसमुन्मुखं भवति ॥
तद्युगलमूर्ध्वधामप्रवेशसस्पन्दजातसंक्षोभम् ।
क्षुभ्नात्यनुचक्राण्यपि तानि तदा तन्मयानि न पृथक्तु ॥
इत्थं यामलमेतद् गलितभिदासंकथं यदैव तदा ।
क्रमतारतम्ययोगात् सैव हि संविद्विसर्गसंघट्टः ॥
तद्ध्रुवधामानुत्तरमुभयात्मकजगदुदारमानन्दम् ।
नो शान्तं नाप्युदितं शान्तोदितसूतिकारणं परं कौलम् ॥
अनवच्छिन्नपदेप्सुस्तां संविदमात्मसात्कुर्यात् ।
शान्तोदितात्मकद्वयमथ युगपदुदेति शक्तिशक्तिमतोः ॥
स्वात्मान्योन्यावेशात् शान्तान्यत्वे द्वयोर्द्वयात्मकत्वात् ।
शक्तिस्तु तद्वदुदितां सृष्टिं पुष्णाति नो तद्वान् ॥
तस्यां चार्यं कुलमथ तया नृषु प्रोक्तयोगसंघट्टात् ।
अथ सृष्टे द्वितीयेऽस्मिन् शान्तोदितधाम्नि येऽनुसंदधते ॥
प्राच्यां विसर्गसत्तामनवच्छिदिते पदे रूढा ।
उदितं च मिथो वक्त्रात् मुख्याद्वक्त्र प्रगृह्यते च बहिः ॥
तृप्तं देवीचक्रं सिद्धिज्ञानापवर्गदं भवति ।
शान्ताभ्यासे शान्तं शिवमेति यदत्र देवताचक्रम् ॥
शून्यं निरानन्दमयं निर्वृतिनिजधामतोऽर्घं च ।
रणरणकरसान्निजरसभरितबहिर्भावचर्वणरसेन ॥
आन्तरपूर्णसमुच्छलदनुचक्रं याति चक्रमथ तदापे ।
उच्छलति प्राग्वदिति त्रिविधोऽन्वर्थो विसर्गोऽयम् ॥
एतद्विसर्गधामनि परिमर्शनतस्त्रिधैव मनुवीर्यम् ।
तत्तत्संविद्गर्भे मन्त्रस्तत्तत्फलं सूते ॥