सामग्री पर जाएँ
सर्वकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 274, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 274

आ. २१ ] तन्त्रसार-अभिनवगुप्त [ १९३
हृदयपर्यवसायिनीम् अभिमन्यते—इति रिक्तस्य जन्तोः अतिरिक्ता वाचो-
युक्तिः, तासां कांचन प्रसिद्धिं प्रमाणीकुर्वता अभ्युपगन्तव्यमेव आगम-
प्रामाण्यम्, इति स आगम आश्रयणीयो यत्र उत्कृष्टं फलम्, इत्यलमन्येन ।
संवित्प्रकाशपरमार्थतया यथैव
भात्यामृशत्यपि तथेति विवेचयन्तः ।
सन्तः समस्तमयचित्प्रतिभाविमर्श-
सारं समाश्रयत शास्त्रमनुत्तरात्म ॥
जिस्स दढपसिद्धिघडिए ववहारे सोइ अस्मि णीसंको ।
तह होहि जहुत्तिण पसिद्धिरूढिए परमसिवो ॥
निजदृढप्रसिद्धिघटिते व्यवहारे लोक अस्ति निःशङ्कः ।
तदा भवति जनोत्तीर्णप्रसिद्धिरूढः परमशिवः ॥
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे आगमप्रामाण्य-
प्रकाशनं नाम एकविंशमाह्निकम् ॥ २१ ॥
१३