तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 273, कुल 294 में से
संदर्भ में पढ़ेंअथैकविंशमाह्निकम्
एवं समस्तं नित्यं नैमित्तिकं कर्म निरूपितम् । अधुना अस्यैव आग-
मस्य प्रामाण्यम् उच्यते । तत्र संविन्मात्रमये विश्वस्मिन् संविदि च
विमर्शात्मिकायां, विमर्शस्य च शब्दनात्मकतायां सिद्धायां, सकलजग-
न्निष्ठवस्तुनः तद्गतस्य च कर्मफलसंबन्धवैचित्र्यस्य यत् विमर्शनं तदेव
शास्त्रम्—इति परमेश्वरस्वभावाभिन्न एव समस्तः शास्त्रसंदर्भों वस्तुत
एकफलप्रापकः एकाधिकार्युद्देशेनैव, तत्र तु परमेश्वरनियतशक्तिमहिम्नैव
भागे भागे रूढिः लोकानाम् इति । केचित् मायोचितभेदपरामर्शात्मनि
वेदागमादिशास्त्रे रूढाः, अन्ये तथाविध एव मोक्षाभिमानेन सांख्यवैष्णव-
शास्त्रादौ, परे तु विविक्तशिवस्वभावामर्शनसारे शैवसिद्धान्तादौ, अन्ये
सर्वमयपरमेश्वरतामर्शनसारे मतङ्गादिशास्त्रे, केचित् तु विरल विरलाः
समस्तावच्छेदबन्ध्यस्वात्मानन्दपरमार्थसंविन्मयपरमेश्वरस्वरूपामर्श -
नात्मनि श्रीत्रिकशास्त्रक्रमे, केचित् तु पूर्वपूर्वेत्यागक्रमेण लङ्घनेन वा—
इत्येवम् एकफलसिद्धिः एकस्मादेव आगमात् । भेदवादेऽपि समस्तागमा-
नाम् एकेश्वरकार्यत्वेऽपि प्रामाण्यं तावत् अवस्थितम्, प्रामाण्यनिबन्धनस्य
एकदेशसंवादस्य अविगीतताया अनिदन्ताप्रवृत्तेश्च तुल्यत्वात्, परस्पर-
बाधो विषयभेदात् अकिंचित्करः। ब्रह्महननतन्निषेधवत् संस्कारभेदः
संस्कारातिशयः तदभावे क्वचित् अनधिकृतत्वम् इति समानम्—आश्रम-
भेदवत्, फलोत्कर्षाच्च उत्कर्षः—तत्रैव उपनिषद्भागवत्, भिन्नकर्तृक-
त्वेऽपि सर्वसर्वज्ञकृतत्वमत्र संभाव्यते—तदुक्ततदतिरिक्तयुक्तार्थयोगात्,
नित्यत्वेपि आगमानां प्रसिद्धिः तावत् अवश्योपगम्या—अन्वयव्यतिरे-
काध्यक्षादीनां तत्प्रामाण्यस्य तन्मूलत्वात्, ‘सत्यं रजतं पश्यामि’ इति
हि सौवर्णिकादिपरप्रसिद्धयैव, प्रसिद्धिरेव आगमः सा काचित् दृष्टफला
‘बुभुक्षितो भुङ्क्ते’ इति बालस्य प्रसिद्धित एव तत्र तत्र प्रवृत्तिः नान्वय-
व्यतिरेकाभ्यां—तदा तयोः अभावात्, यौवनावस्थायां तद्भावोऽपि
अकिंचित्करः, प्रसिद्धिं तु मूलीकृत्य सोऽस्तु कस्मैचित् कार्याय, काचित्
अदृष्टवैदेह्य-प्रकृतिलय-पुरुषैकवल्यफलदा, काचित् शिवसमानत्वफलदा,
काचित् ऐक्यपर्यवसायिनी, सा च प्रत्येकम् अनेकविधा—इत्येवं बहुतर-
प्रसिद्धिपूर्णे जगति यो यादृशो भविष्यन् स तादृशीमेव प्रसिद्धिं बलादेव