सामग्री पर जाएँ
सर्वकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 213, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 213

१३२ ] तन्त्रसार-अभिनवगुप्त [ आ. १३
शान्तेषु षट्सु कारणषट्कस्पर्शं कुर्वन् प्रत्येकमष्टौ संस्कारान् चिन्तयन्
कंचित्कालं शिष्यप्राणं तत्रैव विश्रमय्य पुनरवरोहेत् । इत्येवापादिताष्टा-
चत्वारिंशत्संस्कारोपरिकृतरुद्रांशापत्तिः समयीभवति । ततः अस्मै पूज्यं
मन्त्रं पुष्पाद्यैः सह अर्पयेत् । ततः समयान् अस्मै निरूपयेत् । गुरौ
सर्वात्मना भक्तिः, तथा शास्त्रे देवे, तत्प्रतिद्वन्द्विनि पराङ्मुखता, गुरुवत्
गुरुपुत्रादेः विद्यासंबंधकृतस्य तत्पूर्वदीक्षितादेः संदर्शनम् यौनसंबन्धस्य
तदाराधनार्थम्, न तु स्वत इति मन्तव्यम् । स्त्रियो वन्ध्यायास्तज्जु-
गुप्साहेतुं न कुर्यात् । देवतानाम गुरुनाम तथा मन्त्रं पूजाकालात् ऋते
न उच्चारयेत् । गुरुपभुक्तं शय्यादि न भुञ्जीत । यत् किंचित् लौकिकं
क्रीडादि तत् गुरुसन्निधौ न कुर्यात् । तद्व्यतिरेकेण न अन्यत्र उत्कर्षबुद्धि
कुर्यात् । सर्वत्र श्राद्धादौ गुरुमेव पूजयेत् । सर्वेषु च नैमित्तकेषु शाकिनी-
त्यादिशब्दान् न वदेत् । पर्वदिनानि पूजयेत् । वैष्णवाद्यैरधोदृष्टिभिः सह
संगतिं न कुर्यात् । अधोमार्गस्थितं कंचित् वैष्णवाद्यं तच्छास्त्रकुतूहलवत्
गुरुकृत्यापि त्यजेत् । तदापि न उत्कर्षबुद्ध्या पश्येत् । लिङ्गिभिः सह
समाचारमेलनं न कुर्यात्, तान् केवलं यथाशक्ति पूजयेत् । शङ्कास्त्यजेत् ।
चक्रे स्थितश्चरमाग्य्रादिविभागं जन्मकृतं न संकल्पयेत् । शरीरात् ऋते
न अन्यत् आयतनतीर्थादिकं बहुमानेन पश्येत् । मन्त्रहृदयम् अनवरतं
स्मरेत्, इत्येवं शिष्यः श्रुत्वा प्रणम्य अभ्युपगम्य गुरुं धनदारशरीरप-
र्यन्तया दक्षिणया परितोष्य पूर्वदीक्षितांश्च दीनानाथादिकान् तर्पयेत् ।
भाविविधिना च मूर्तिचक्रं तर्पयेत् । इत्थं समयीभवति । मन्त्राभ्यासे
नित्यपूजायां श्रवणेऽध्ययने अधिकारी, नैमित्तिके तु सर्वत्र गुरुमेव अभ्य-
र्थयेत, इति सामयिको विधिः ।
अध्वानमालोच्य समस्तमन्तः पूर्णं स्वमात्मानमथावलोक्य ।
पश्येदनुग्राह्यधिया द्विषट्कपर्वन्तमेवं समयी शिशु स्यात् ॥
सअलभा अपरि उण्णउ परभैरउ अत्ताणु
जाइवि अग्गणि सण्णउ जोअभिमी सत्ताणु ।
एहस समयदिक्ख परभइरव जलाणं हि मज्जणिण
इत्थति लज्जहवन बहुपरिववहोडउवाजिण ॥
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे समयदीक्षाप्रकाशनं
नाम त्रयोदशमाह्निकम् ॥१३॥