सामग्री पर जाएँ
सर्वकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 195, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 195

[११४ ] तन्त्रसार-अभिनवगुप्त [ आ. ११

धरशासनं प्रत्युत प्राणयति—पूर्णत्वात् इति सर्वाधिकारी। स च दैशिको
गुरुः आचार्यो दीक्षकः चुम्बकः, स चायं पूर्णज्ञान एव सर्वोत्तमः—तेन
विना दीक्षाद्यसम्पत्तेः। योगी तु फलोत्सुकस्य युक्तो यदि उपायोपदेशेन
अव्यवहितमेव फलं दातुं शक्तः उपायोपदेशेन तु ज्ञाने एव युक्तो मोक्षेऽपि
अभ्युपायात् ज्ञानपूर्णताकाङ्क्षी च बहूनपि गुरून् कुर्यात्। उत्तमोत्त-
मादिज्ञानभेदापेक्षया तेषु तु वर्तेत, सम्पूर्णज्ञानगुरुत्यागे तु प्रायश्चित्तमेव।
ननु सोऽपि अब्रुवन् विपरीतं वा ब्रुवन् किं न त्याज्यः, नैव इति ब्रूमः,
तस्य हि पूर्णज्ञानत्वात् एव रागाद्यभाव इति अवचनादिकं शिष्यगतेनैव
केनचित् अयोग्यत्वानाश्वस्तत्वादिना निमित्तेन स्यात् इति, तदुपासने
यतनीयं शिष्येण, न तत्त्यागे। एवम् अनुग्रहनिमित्तं शक्तिपातो निरपेक्ष
एव—कर्मादिनियत्यपेक्षणात्। तिरोभाव इति, तिरोभावो हि कर्माद्य-
पेक्षगाढदुःखमोहभागित्वफलः, यथा हि—प्रकाशस्वातन्त्र्यात् प्रबुद्धोऽपि
मूढवत् चेष्टते हृदयेन च मूढचेष्टां निन्दति, तथा मूढोऽपि प्रबुद्धचेष्टां
मन्त्राराधनादिकां कुर्यात्, निन्देच्च, यथा च अस्य मूढचेष्टा क्रियमाणापि
प्रबुद्धस्य ध्वंसम् एति तथा अस्य प्रबुद्धचेष्टा, सा तु निन्द्यमाना—
निषिद्धाचरणरूपत्वात् स्वयं च तथैव विशङ्कमानत्वात् एनं दुःखमोहपङ्के
निमज्जयति, न तु उत्पन्नशक्तिपातस्य तिरोभावोऽस्ति, अत्रापि च
कर्माद्यपेक्षा पूर्ववत् निषेध्या, तत्रापि च इच्छावैचित्र्यात् एतद्देहमात्रोप-
भोग्यदुःखफलत्वं वा दीक्षासमयचर्यागुरुदेवाग्न्यादौ सेवानिन्दनोभय-
प्रसक्तानामिव प्राक् शिवशासनस्थानां तत्त्यागिनामिव। तत्रापि इच्छा-
वैचित्र्यात् तिरोभूतोऽपि स्वयं वा शक्तिपातेन युज्यते, मृतो वा बन्धु-
गुर्वाद्युपमुखेन, इत्येवं पञ्चकृत्यभागित्वं स्वात्मनि अनुसंदधत् परमेश्वर
एव, इति न खण्डितमात्मानं पश्येत्।
यथा निरर्गलस्वात्मस्वातन्त्र्यात्परमेश्वरः।
आच्छादयेन्निजं धाम तथा विवृणुयादपि॥
अप्रबुद्धेऽपि वा धाम्नि स्वस्मिन्बुद्धवदाचरेत्।
भूयो बुध्येत वा सोऽयं शक्तिपातोऽनपेक्षतः॥
जह निअझंउ महेसरु अच्छवि संविरवितपह।
पुणुस अत्ति विपर पसरु अच्छ इविमल सरूइ ॥
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे शक्तिपातप्रकाशनं
नाम एकादशमाह्निकम् ॥११॥