तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 194, कुल 294 में से
संदर्भ में पढ़ेंआ. ११ ] तन्त्रसार-अभिनवगुप्त [ ११३
परमेशता, मध्यतीव्रात् शास्त्राचार्यानपेक्षिणः स्वप्रत्ययस्य प्रातिभज्ञा-
नोदयः यदुदये बाह्यसंस्कारं विनैव भोगापवर्गप्रदः प्रातिभो गुरुरित्युच्यते
तस्य हि न समयादिकल्पना काचित्, अत्रापि तारतम्यसद्भावः-
इच्छावैचित्र्यात् इति, सत्यपि प्रातिभत्वे शास्त्राद्यपेक्षा संवादाय स्यादपि,
इति निर्भित्तिसभित्त्यादिबहुभेदत्वम् आचार्यस्य प्रातिभस्यागमेषु उक्तम्,
सर्वथा प्रतिभांशो बलीयान्- तत्संनिधौ अन्येषाम् अनधिकारात् ।
भेददर्शन इव अनादिशिवसंनिधौ मुक्तशिवानां सृष्टिल्यादिकृत्येषु मन्द-
तीव्रात् शक्तिपातात् सद्गुरुविषया विश्राता भवति, असद्गुरुविषयायां
तु तिरोभाव एव, असद्गुरुतस्तु सद्गुरुगमनं शक्तिपातादेव । सद्गुरुस्तु
समस्तैतच्छास्त्रतत्त्वज्ञानपूर्णः साक्षात् भगवद्भैरवभट्टारक एव, योगि-
नोऽपि स्वभ्यस्तज्ञानतयैव मोचकत्वे तत्र योग्यत्वस्य सौभाग्यलावण्या-
दिमत्त्वस्येवानुपयोगात् । असद्गुरुस्तु अन्यः सर्व एव । एवं यियासुः
गुरोः ज्ञानलक्षणां दीक्षां प्राप्नोति यया सद्य एव मुक्तो भवति जीवन्नपि,
अत्र अवलोकनात् कथनात् शास्त्रसम्बोधनात् चर्यादर्शनात् चरुदानात्
इत्यादयो भेदाः । अभ्यासवतो वा तदानीं सद्य एव प्राणवियोजिकां
दीक्षां लभते- सा तु मरणक्षण एव कार्या इति वक्ष्याम इति । तीव्रस्त्रिधा
उत्कृष्टमध्यात् शक्तिपातात् कृतदीक्षाकोऽपि स्वात्मनः शिवतायां न
तथा दृढप्रतिपत्तिः भवति, प्रतिपत्तिपरिपाकक्रमेण तु देहान्ते शिव एव,
मध्यमध्यात् तु शिवतोत्सुकोऽपि भोगप्रेप्सुः भवति इति तथैव दीक्षायां
ज्ञानभाजनम्, स च योगाभ्यासलब्धम् अनेनैव देहेन भोगं भुक्त्वा देहान्ते
शिव एव । निकृष्टमध्यात् देहान्तरेण भोगं भुक्त्वा शिवत्वम् एति,
इति । मध्यस्तु त्रिधा- भोगोत्सुकता यदा प्रधानभूता तदा मन्दत्वं-
पारमेश्वरमन्त्रयोगोपायतया यतस्तत्र औत्सुक्यम्, पारमेशमन्त्र-
योगादेश्च यतो मोक्षपर्यन्तत्वम् अतः शक्तिपातरूपता । तत्रापि
तारतम्यात् त्रैविध्यम्, इत्येष मुख्यः शक्तिपातः । वैष्णवादीनां तु राजा-
नुग्रहवत् न मोक्षान्तता इति न इह विवेचनम् । शिवशक्त्यधिष्ठानं तु
सर्वत्र इति उक्तम्, सा परं ज्येष्ठा न भवति अपि तु घोरा घोरतरा वा,
स एष शक्तिपातो विचित्रोऽपि तारतम्यवैचित्र्यात् भिद्यते, कश्चित्
वैष्णवादिस्थः समयादिक्रमेण स्रोतःपञ्चके च प्राप्तपरिपाकः सर्वोत्तीर्ण-
भगवत्षडर्धशास्त्रपरमाधिकारिताम् एति, अन्यस्तु उल्लङ्घनक्रमेण
अनन्तभेदेन, कोऽपि अक्रमम् इति अत एव अपराधरशासनस्था गुरवोऽपि
इह मण्डलमात्रदर्शनेऽपि अनधिकारिणः, ऊर्ध्वशासनस्थस्तु गुरुः अधरा-
८