तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 134, कुल 294 में से
संदर्भ में पढ़ेंआ. ६ ] तन्त्रसार-अभिनवगुप्त [ ५३
अथ समाने कालोदयः । समानो हार्दीषु दशसु नाडीषु संचरन्
समस्ते देहे साम्येन रसादीन् वाहयति । तत्र दिगष्टके संचरन् तद्दिक्पति-
चेष्टाम् इव प्रमातुः अनुकारयति । ऊर्ध्वाधस्तु संचरन् तिसृषु नाडीषु
गतागतं करोति । तत्र विषुवद्दिने बाह्ये प्रभातकाले सपादं घटिकां
मध्यमार्गे वहति । ततो नवशतानि प्राणविक्षेपाणाम्, इति गणनया
बहिः सार्धघटिकाद्वयं वामे दक्षिणे वामे दक्षिणे वामे इति पञ्च संक्रान्तय
ततः संक्रान्तिपञ्चके वृत्ते पादोनासु चतुर्दशसु घटिकासु अतिक्रान्तासु
दक्षिणं शारदं विषुवन्मध्याह्ने नव प्राणशतानि । ततोऽपि दक्षिणे वामे
दक्षिणे वामे दक्षिणे इति संक्रान्तिपञ्चकं, प्रत्येकं नवशतानि इत्येवं
रात्रावपि, इति । एवं विषुवद्दिवसे तद्रात्रौ च द्वादश संक्रान्तयः । ततो
दिनवृद्धिक्षयेषु संक्रान्तिवृद्धिक्षयः । एवम् एकस्मिन् समानमरुति वर्षद्वयं
श्वासप्रश्वासयोगाभावात् । अत्रापि द्वादशाब्दोदयादि पूर्ववत् । उदाने तु
द्वादशान्तावधिश्चारः स्पन्दमात्रात्मनः कालस्य । अत्रापि पूर्ववत् विधिः ।
व्याने तु व्यापकत्वात् अक्रमेऽपि सूक्ष्मोच्छलत्तायोगेन कालोदयः ।
अथ वर्णोदयः । तत्र अर्धप्रहरे अर्धप्रहरे वर्णोदयो विषुवति समः,
वर्णस्य वर्णस्य द्वे शते षोडशाधिके प्राणानाम्, बहिः षट्त्रिंशत् चषकाणि
इति उदयः, अयम् अयत्नजो वर्णोदयः। यत्नजस्तु मन्त्रोदयः अरघट्टघटी-
यन्त्रवाहनवत् एकानुसंधिबलात् चित्रं मन्त्रोदयं दिवानिशम् अनुसंदधत्
मन्त्रदेवतया सह तादात्म्यम् एति । तत्र सदोदिते प्राणचारसंख्ययैव
उदयसंख्या व्याख्याता, तद्द्विगुणिते तदर्धम् इत्यादिक्रमेण अष्टोत्तरशते
चक्रे द्विशत उदयः, इति क्रमेण स्थूलसूक्ष्मे चारस्वरूपे विश्रान्तस्य, प्राण-
चारे क्षीणे, कालग्रासे वृत्ते संपूर्णम् एकमेवेदं संवेदनं चित्रशक्तिनिर्भरं
भासते । कालभेद एव संवेदनभेदकः न वेद्यभेदः शिखरस्थज्ञानवत्,
ज्ञानस्य यावान् अवस्थितिकालः स एव क्षणः, प्राणोदये च एकस्मिन्
एकमेव ज्ञानम्, अवश्यं चैतत्,—अन्यथा विकल्पज्ञानम् एक न किंचित्
स्यात्—क्रमिकशब्दारूषितत्वात् मात्राया अपि क्रमिकत्वात् । यदाह
तस्यादि उदात्तमर्धह्रस्वम् । (पा० व्या० १-२-३२)
इति । तस्मात् स्पन्दान्तरं यावत् न उदितं तावत् एकमेव ज्ञानं ।
अत एव एकाशीतिपदस्मरणसमये विविधर्मनुप्रवेशमुखेन एक एव असौ
परमेश्वरविषयो विकल्पः कालग्रासेन अविकल्पात्मा एव संपद्यते इति ।
एवम् अखिलं कालाध्वानं प्राणोदय एव पश्यन्, सृष्टिसंहारांश्चविचित्रान्