तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 133, कुल 294 में से
संदर्भ में पढ़ेंमहोलोके क्रीडन्ति । ततो निशासमाप्तौ ब्राह्मी सृष्टिः। अनेन मानेन
वर्षशतं ब्रह्मायुः । तत् विष्णोः दिनं तावती च रात्रिः, तस्यापि शतम्
आयुः । तत् दिनं तदूर्ध्वं रुद्रलोकप्रभो रुद्रस्य, तावती रात्रिः, प्राग्वत्
वर्ष, तच्छतमपि च अवधिः । तत्र रुद्रस्य तदवसितौ शिवत्वगतिः,
रुद्रस्य उक्ताधिकारःवधिः, ब्रह्माण्डधारकाणां तत् दिनं शतरुद्राणां,
निशा तावती तेषामपि च शतमायुः । शतरुद्रक्षये ब्रह्माण्डविनाशः ।
एवं जलतत्त्वात् अव्यक्तान्तम् एतदेव क्रमेण रुद्राणाम् आयुः । पूर्व-
स्यायुर्उत्तरस्य दिनम् इति । ततश्च ब्रह्मा रुद्राश्च अबाद्यधिकारिणः
अव्यक्ते तिष्ठन्ति इति । श्रीकण्ठनाथश्च तदा संहर्ता । एषोऽवान्तरप्रलयः
तत्क्षये सृष्टिः । तत्र शास्त्रान्तर-मुक्ता अपि सृज्यन्ते । यत्तु श्रीकण्ठनाथ-
स्य स्वम् आयुः तत् कञ्चुकवासिनां रुद्राणां दिनं, तावती रजनी, तेषां
यदायुः तत् गहनेशदिनं, तावती एव क्षपा, तस्यां च समस्तमेव मायायां
विलीयते । पुनः गहनेशः सृजति । एवं यः अव्यक्तकालः तं दशभिः
परार्धैः गुणयित्वा मायादिनं कथयेत्, तावती रात्रिः । स एव प्रलयः ।
मायाकालः परार्धशतेन गुणित ऐश्वरतत्त्वे दिनम् । अत्र प्राणो जगत्
सृजति, तावती रात्रिः, यत्र प्राणप्रशमः, प्राणे च ब्रह्मबिलधाम्नि
शान्तेऽपि या संवित्, तत्राप्यस्ति क्रमः । ऐश्वरे काले परार्धशतगुणिते
या संख्या, तत् सादाशिवं दिनं, तावती निशा, स एव महाप्रलयः ।
सदाशिवः स्वकालपरिक्षये बिन्द्वर्धचन्द्रनिरोधिका आक्रम्य नादे लीयते,
नादः शक्तितत्त्वे, तत् व्यापिन्यां, सा च अनश्रितदिनं । अनाश्रितः
सामनसे पदे यत् तत् सामनस्यं साम्यं तत् ब्रह्म । अस्मात् सामनस्यात्
अकल्यात् कालात् निमेषोन्मेषमात्रतया प्रोक्ताशेषकालप्रसरप्रविलयचक्र-
भ्रमोदयः । एकं दश शतं सहस्रम् अयुतं लक्षं नियुतं कोटिः अर्बुदं वृन्दं
खर्वं निखर्वं पद्मं शङ्कुः समुद्रं अन्त्यं मध्यम् परार्धम् इति क्रमेण दशगुणि-
तानि अष्टादश, इति गणितविधिः । एवम् असंख्याः सृष्टिप्रलयाः एकस्मिन्
महासृष्टिरूपे प्राणे, सोऽपि संविदि, सा उपाधौ, स चिन्मात्रे, चिन्मात्र-
स्यैव अयं स्पन्दो-यदयं कालोदयो नाम। तत एव स्वप्नसंकल्पादौ
वैचित्र्यम् अस्य न विरुद्धावहम् । एवं यथा प्राणे कालोदय,, तथा
अपानेऽपि हृदयात् मूलपीठपर्यन्तम् । यथा च हृत्कण्ठ-तालु-ललाट-रन्ध्र-
द्वादशान्तेषु ब्रह्म-विष्णु-रुद्रेश-सदाशिवानाश्रिताख्यं कारणषट्कम्, तथैव
अपानेऽपि हृत्कन्दानन्द-संकोच-विकास-द्वादशान्तेषु, बाल्य-यौवन-वार्धक-
निधन-पुनर्भवमुक्त्यधिपतय एते ।