सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 80, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 80

३० ताण्ड्यमहाब्राह्मणे
अथ पञ्चमः खण्डः ।
अथ पञ्चदशस्तोमस्यापरा विष्टुतिः प्रदर्श्यते--
पञ्चभ्यो हिङ्करोति स तिसृभिस्स एकया तिसृभ्यो
हिंकरोति स पराचीभिस्सप्तभ्यो हिङ्करोति स एकया
स तिसृभिः स तिसृभिः ॥ १ ॥
स्पष्टोर्थः ॥ १ ॥
अस्यामधिकारणमाह-
त्रीन् स्तोमान् प्रतिविहिता ब्रह्मवर्चसकामः
स्तुवीत ॥ २ ॥
एषा विष्टुतिः पञ्चदशत्रिवृत् सप्तदशसंख्याकान् स्तोमान् ‘प्रतिवि-
हिता’ स्तोमत्रयप्रतिनिधित्वेन सम्पादिता तया ब्रह्मवर्चसकामः
ब्रह्मवर्चसं श्रुताध्ययनजन्यन्तेजस्तत्कामः ‘स्तुवीत’ ॥ २ ॥
कथमस्याः स्तोमत्रयप्रतिनिधित्वमित्यत आह--
पञ्चभिः पञ्चदशं तिसृभिस्त्रिवृतꣳ सप्तभिः स-
प्तदशम् ॥ ३ ॥
प्रथमपर्यायगताभिः पञ्चभिर्ऋग्भिः पञ्चदशं स्तोमं प्रतिविहिता·
पञ्चदशस्य हि प्रथमे पर्याये पञ्चर्चो भवन्ति । द्वितीयपर्यायगताभि-
स्तिसृभिः ऋग्भिस्त्रिवृत् स्तोमं प्रतिविहिता त्रिवृत्स्तोमस्य ह्येक-
स्मिन् पर्याये तिस्र ऋचो भवन्ति । तथा तृतीयपर्यायगताभिः स-
प्तभिः ऋग्भिः सप्तदशं स्तोमं प्रतिविहिता । तस्य ह्येकैकस्मिन् पर्याये
सप्तर्चो भवन्ति । एवमस्याः स्तोमत्रयसाम्यं सम्पन्नम् ॥ ३ ॥
अतः किं ज्ञातमित्यत आह--
वीर्यं वै स्तोमा वीर्यमेव तदेकधा समूहते ब्रह्मव-
र्चसस्यावरुद्ध्यै तेजस्वी ब्रह्मवर्चसी भवति य एत-
या स्तुते ॥ ४ ॥
ये उदाहृतास्त्रयः स्तोमा वीर्यात्मिकाः पृथक् पृथग्जननहेतुत्वात्
तथासति पर्यायत्रयेण स्तोमत्रयसदृशा एताः प्रयुञ्जानः वीर्यमेव ए-
कधा एकप्रकारेण समूहते स्तोमत्रयसामर्थ्यं समूहीकरोतीत्यर्थः ।
एतच्च वीर्यसमूहनं ब्रह्मवर्चसस्यावरुद्ध्यै अवरोधनाय सम्पादनाय