सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 79, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 79

द्वितीयाध्याये चतुर्थखण्डः । ५९
पञ्चभ्यो हिङ्करोति स एकया स तिसृभिस्स एकया, पञ्च-
भ्यो हिङ्करोति स एकया स एकया स तिसृभिः, पञ्च
पश्चिनी पञ्चपञ्चदशस्य विष्टुतिः ॥ १ ॥
चतुर्ष्वाज्यस्तोत्रेष्वेकैकं तृचात्मकं सूक्तं तस्मिन् तृचे पञ्चदशसं-
ख्या ऋचः सम्पादनीयाः । तच्च सम्पादनं आवृत्तिमन्तरेण न सम्भ-
वतीत्यावृत्तिप्रकार इहोपदिश्यते त्रिभिः पर्यायैः स्तोत्रमावर्त्तनी-
यम् । अग्न आयाहीत्येषा सूत्रेण प्रथमा ऋक् , तन्त्वा समिद्भिरिति
द्वितीया, स नः पृथिविति तृतीया । तासु प्रथमामृचं प्रथमे पर्याये त्रि-
रावर्त्तयेत् इतरे द्वे सकृत्सकृत् । द्वितीये पर्याये मध्यमां त्रिरभ्यस्येत्
तृतीये पर्याये अन्तिमां त्रिरभ्यस्येत् । एवं सत्येकैकस्य आवृत्तिः
पञ्चधा सम्पद्यते । एषा पञ्चपश्चिनी एकैकस्मिन् पर्याये पञ्चर्चो भ-
वन्तीति । पञ्चपश्चिन्येतत्संज्ञा पञ्चदशस्तोमस्यैषा विष्टुतिः ॥ १ ॥
अथैतां पुरुषपश्वादिप्राप्तिसाधनत्वेन प्रशंसति—
पाङ्क्तः पुरुषः पांक्ताः पशवस्तया पुरुषञ्च पशूंश्चा-
प्नोति वज्रो वै पञ्चपशो यत्पञ्चपञ्च व्यूहति वज्रमेव
तद्व्यूहति शान्त्या एषा वै प्रतिष्ठिता पञ्चदशस्य
विष्टुतिः प्रतिष्ठति य एतया स्तुते ॥ २ ॥
पङ्क्त्याख्ये छन्दसि पञ्चसंख्या विद्यते तस्य पञ्चभिः पदैरुपेत-
त्वात्, पुरुषेपि द्वौ हस्तौ द्वौ पादौ शिरश्चेति पञ्चसंख्या विद्यते, पशु-
ष्वपि चत्वारः पादाः पुच्छञ्चेति पञ्चसंख्यास्ति । अतः संख्याद्वारा
पुरुषस्य पशूनाञ्च पाङ्क्तत्वं विष्टुतेरपि पञ्चसंख्यायोगात्पाङ्क्तत्वमस्ति
तस्मादेतया विष्टुत्या पुरुषं च पशूंश्चाप्नोति यजमानः, तथा प्रजाप-
तेह्रसः सकाशात् पञ्चदशस्तोम इन्द्रश्च सहोत्पन्नौ वज्रश्चेन्द्रसम्बद्ध
इति तद्वारा वज्रत्वेनास्य स्तुतिः । योऽयं पञ्चदशस्तोमोऽसौ वज्रो
वै वज्र एव ईदृशं वज्रं यत् यस्मात्कारणात् पञ्च पञ्च पञ्चशः पञ्चशः
स्तोमेन व्यूहति विभजति । ततो वज्ररूपस्य पञ्चदशस्य त्रेधा शकली-
करणात् वज्राभावेन यजमानस्य शान्त्यै उपद्रवशमनायैव एषा विष्टु-
तिः सम्पद्यते । उक्तप्रकारेण प्रजापशुहेतुत्वात् पञ्चसंख्यया विभा-
गाच्च एषैव पञ्चदशस्तोमस्य प्रतिष्ठिता विष्टुतिः य एतया स्तुते
स प्रतिष्ठां लभते ॥ २ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य चतुर्थखण्डः ।