ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 78, कुल 518 में से
संदर्भ में पढ़ेंअस्यामपि विष्टुतौ बहुदोषाः संभवन्तीत्याह —
पापवसीयसन्तु भवति ॥ ६ ॥
तुशब्दो फलवैलक्षण्यद्योतनार्थः। पापं प्रसिद्धं वसीयः पुण्यं तदुभ
यमेकाश्रयं भवति । इतरत् उद्यतीवाक्यशेषवत् व्याख्येयम् । नञः
भावोऽत्र विशेषः । इत्थं विष्टुतयस्तिस्रो विहिताः, तिसृष्वपि तासु
फलविशेषश्रवणान्निन्दादर्शनाच्च समानफलत्वात् सर्व्वा नित्याः,
यत्र विशेषादेशः क्रियते निमित्तं वा कामो वा श्रूयते ततोऽन्यत्र नित्य-
प्रयोगे आद्याभिरेताभिरेव स्तुतिभिः स्तोमसम्पादनं कार्य्यम्, तदाह
सूत्रकृत् — 'प्रथमाभिर्विष्टुतिभिः स्तोमविधानमनादेशे ताः पक्षाः स-
र्व्वाभिप्रायाश्चेति' । पुनरपि यथाशिषं वा विदध्यादित्यादिना खण्डशे-
षेण बहवः पक्षाः सूत्रकृतोपन्यस्ताः । ते तत्रैव बोद्धव्याः । नन्वेता-
स्वपि प्रत्येकं निन्दादर्शनात् कथमासां नित्यत्वम् । नैष दोषः । उद्य-
त्यान्तावत् यो दोष उक्त अवर्षुकः पर्ज्जन्यो भवतीति, स कुलायिनी-
परिग्रहे परिह्रियते । तत्र हि वर्षुकः पर्ज्जन्यो भवतीत्याम्नातम् । यत्तु
कुलायिन्यां दोषदर्शनं 'पापवसीयसन्तु भवत्यधरोत्तर'मित्यादि तदु-
द्यतीप्रयोगेण विहृतं तत्र हि पापवसीयसो विष्टुतिरिति सा श्रूयते
श्लक्ष्णेव तु पापवसीयसन्तु भवति ॥ ६ ॥
अधरोत्तरमपावगतो रुध्यतेऽवगच्छत्यपरुद्धः पापी-
यान् श्रेयाꣳसमभ्यारोहति जनता जनतामभ्येत्यन्यो-
न्यस्य प्रजा आददते न यथाक्षेत्रं कल्पन्ते ॥ ७ ॥
प्रथमाया मध्यमायाश्चान्ते प्रयोग इति यदस्ति तदेतदधरोत्तरमनु-
ष्ठानं यस्मिन् देशे क्रियते तत्र वा ईश्वरा पशून्निर्मृज इति परिवर्त्तिन्यां
यदपशुलक्षणं दोषदर्शनं तदुद्यत्यां परिहृतं भवति — 'एषा वै प्रतिष्ठिता
विष्टुतिरिति' । तत्र हि वाक्यशेषः--'प्रजापशुसमृद्ध्या हि प्रतिष्ठितो
भवती'ति ॥ ७ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्याये तृतीयः खण्डः ।
अथ चतुर्थः खण्डः ।
अथ पञ्चदशस्तोमस्य तिस्रो विष्टुतयः । तत्र प्रथमं पञ्चपञ्चिन्या-
ख्यां विष्टुतिं दर्शयति —
पञ्चभ्यो हिङ्करोति स तिसृभिस्स एकया स एकया,