ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
DevanagariSanskritpublished518 पृष्ठ
पृष्ठ 76, कुल 518 में से
संदर्भ में पढ़ेंपृष्ठ 76
५६ ताण्ड्यमहाब्राह्मणे
एषा विष्टुतिर्भाल्लविशाखिनां नित्येति दर्शयति—
तामेताम्भाल्लवय उपासते तस्मात्ते प्रतिगृह्णन्तः
परिवर्त्तान्न च्यवन्ते ॥ ४ ॥
‘तामेतां’ परिवर्त्तिनीं विष्टुतिं भाल्लविशाखिनः ‘उपासते’ त्रिवृत
स्तोमे प्रयुञ्जते । अतस्ते धनादिकं प्रतिगृह्णन्तः ‘परिवर्त्तात्’ परिवर्त्त-
मानात् तस्माद्धनात् ‘न च्यवन्ते’ न वियुज्यन्ते ॥ ४ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य द्वितीयः खण्डः ।
अथ तृतीयः खण्डः ।
अथ कुलायिनीं विष्टुतिन्दर्शयति—
तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हि-
ङ्करोति या मध्यमा सा प्रथमा योत्तमा सा मध्यमा
या प्रथमा सोत्तमा तिसृभ्यो हिङ्करोति योत्तमा सा
प्रथ