सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 499, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 499

विराजाऽन्नाद्यमवरुन्धेऽमुष्मादक्षययोभयोरनयोर्लो-
कयोरन्नाद्यमवरुन्ध आन्धीगवेन तुष्टुवानः ॥ २२ ॥
अत्र हि 'पुरोजिती' इत्याद्यानुष्टुबुत्तरे गायत्र्यौ । अतो दशपादा भ-
वन्तीति तैर्निष्पद्यमाना पद्या अन्या विराट् । एतासु विद्यमानाक्षरपरि-
गणनायामशीतिसंख्यान्यक्षराणि भवन्ति । तत्र दशसंख्यया विभागे अ-
न्ततो दशा (२)क्षराण्येव तिष्ठन्ति । तैरक्षरैर्निष्पद्यमाना अन्या विराट् ।
(३)ततः पद्यया विराजा अस्माद्भूलोकादेव अन्नाद्यमवरुन्धे लभते ।
अमुष्मात् स्वर्गलोकादक्षय्यया विराजा अन्नाद्यमवरुन्धे यस्मादान्धी-
गवेन तुष्टुवानः स्तुतवान् अनयोरुभयोर्द्यावापृथिव्योर्लोकयोरन्नाद्यं
अदनीयं प्रशस्तमन्नमवरुन्धे लभते ॥ २२ ॥
अथ 'सोमः पवते' इति तृचे गेयं साम दर्शयति—
वात्सप्रं भवति ॥ २३ ॥
वत्सप्रिणा दृष्टं साम वात्सप्रम् । तत् 'सोमः पवते' इति तृचे कार्यम् २
वैराजस्य साम्न इव (४)अस्याऽप्यनुतोदवत्त्वात् साम्येनाऽस्मिन्
वैराजं प्रतिष्ठितमित्यभिप्रेत्य स्तौति—
एतस्मिन्वै वैराजं प्रतिष्ठितं प्रतितिष्ठति वात्सप्रेण
तुष्टुवानः ॥ २४ ॥
अयमभिप्रायः—अनुतोदो नामाऽभ्यासः । स च त्रित्वविशिष्टो वैराज-
स्य त्रिषु पादान्तेष्वधीयते वात्सप्रेऽपि तथाऽधीयते । उभयत्र चतुष्कृत्वो-
ऽभ्यासः सूत्रकृता विकल्पेनोक्तः—'तस्य पदान्तांश्चतुरभ्यस्येयुस्तथा चा-
तुर्थिकस्य वात्सप्रस्ये'ति । तस्येति प्राकृतं वैराजं परामृश्यते । तत्र च नि-
दानकारेण व्यवस्था दर्शिता—'तेन वात्सप्रं सामाऽऽदध्यात् यदि वैराजं
त्र्यनुतोदं वात्सप्रमपि त्र्यनुतोदम् । यदि चतुरनुतोदं वात्सप्रमपि चतुर-
नुतोदमि'ति । सूत्रकृताऽप्युक्तम्—'समाधि त्वि'ति । वैराजवात्सप्रयोः
समाधि साम्यं कुर्यादिति तस्याऽर्थः । एतदेवाभिप्रेत्य एतस्मिन् खलु
वात्सप्रे वैराजं साम प्रतिष्ठितमिति कथनम् । यस्मादेवं तस्माद्वात्स-
प्रेणानेन तुष्टुवानः स्तुवन् प्रतितिष्ठति ॥ २४ ॥
अथाऽस्य साम्नः ऋषिसम्बन्धप्रदर्शनपुरस्सरं श्रद्धाफलतया स्तौति—
वत्सप्रीर्भाल्न्दनः श्रद्धां नाऽविन्दत स तपोऽतप्यत
२. अक्षराण्यवशिष्यन्त इति. क. पु. ३. तयोरिति. क. ख. पु.
४. अस्याऽप्यनुतोदादिति. क. ख. पु. ।