सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 497, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 497

द्वादशाध्याये एकादशः खण्डः । ४७७
लोकमायन्नङ्गिरसोऽगच्छन् । कल्याणस्त्वहाङ्गिरसोऽहीयत हीनो भूमावेव
परित्यक्तोऽभूत् । हि यस्मात् सोऽनृतं वितथमवदत् । तस्मादहीयत ।
स एषोऽसत्यवादी श्वित्रः श्वेतकुष्ठी दृश्यते ॥ ११ ॥
तस्मादेतेन साम्ना स्तवनं स्वर्गसाधनमित्युपसंहरति—
स्वर्ग्यं वा एतत्साम स्वर्गलोकः पुण्यलोको भवत्यौ-
र्णायवेन तुष्टुवानः ॥ १२ ॥
स्वर्गलोकः स्वर्गो लोको यस्य स तथोक्तः पुण्यः पुण्यात्मक उत्तमः
स्वर्गादन्योऽपि लोको यस्य स पुण्यलोकः और्णायवेन तुष्टुवानः स्तुव-
न्नुभयविधो भवति । गतमन्यत् ॥ १२ ॥
‘त्वं ह्यङ्ग दैव्ये’ति पूर्वविहिते तृचे गातव्यं साम विधत्ते—
बृहतकं भवति ॥ १३ ॥
बृहतको नाम ऋषिः तत्सम्बन्धि साम बृहतकम् । तदस्मिंस्तृचे
गातव्यम् ॥ १३ ॥
तदेतत् स्तौति—
सामाऽऽर्षेयेण प्रशस्तं त्वꣳ हीत्यन्नाद्यस्याऽवरुद्ध्यै
हीति वा अन्नं प्रदीयते षोडशिनमु चैवै-
तेनोद्यच्छति ॥ १४ ॥
आर्षेयेण ऋषिसम्बन्धेन युक्तं साम प्रशस्तमुत्कृष्टम् । अस्य च स्तो-
त्रीयासु त्वं हीति शब्दः श्रूयमाणः अन्नाद्यस्याऽवरुद्ध्यै अवरोधनाय भ-
वति। कथम्? लोके हि हीत्यनेन शब्देन खलु अन्नं प्रदीयते बालानां भो-
जयितारः मुखस्य विदारणार्थं हीति शब्दमुच्चारयित्वा अन्नमादयन्ति ।
तत्सामान्यादत्रापि हिशब्देनाऽन्नाद्यस्याऽवरोधो भवति । अपि च षोड-
शिनमेव ग्रहमेतेनोद्यच्छति होमार्थमुद्गमयति । त्वं ह्यङ्ग दैव्येत्याभिमुख्य-
करणात् पूर्वयोः सवनयोः शयानं अत्र होमायोद्बोधयतीत्यर्थः ॥ १४ ॥
अथ ‘सोमः पुनान ऊर्म्मिणे’ति तृचे गातव्यं साम विधत्ते—
आर्तिषादीयं भवति ॥ १५ ॥
आर्तिषादीयाख्यं सामाऽस्मिंस्तृचे गेयम् ॥ १५ ॥
अथैतदायुर्हेतुरिति स्तौति—
आयुर्वा आर्तिषादीयमायुषोऽवरुद्ध्यै ॥ १६ ॥
यदेतदार्तिषादीयाख्यं साम तदायुर्वै आयुषोऽभिवृद्धिहेतुत्वादायुरेव । अत एतत्साम आयुषोऽवरोधनार्थमत्र कार्यम् ॥ १६ ॥