ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 496, कुल 518 में से
संदर्भ में पढ़ें[Page Header]
४७६ ताण्ड्यमहाब्राह्मणे
मुलु प्रत्ययः। ध्यात्वा ध्यात्वा कोऽसौ देवयानः पन्था इति विचार्य्य वि-
चार्य्य उदव्रजदूर्ध्वमगच्छत्। स कल्याण आङ्गिरसः कियन्तं देशं गत्वा
अन्तरिक्षलोके ऊर्णायुं(१) एतत्संज्ञं गन्धर्व्व अप्सरसां मध्ये प्रेङ्ख्यमाणं
(२)दोलया विहरन्तं उपैत् उपागच्छत्। स गन्धर्व्व इयां प्राप्नुयामिति
यां यां स्त्रियमभ्यदिशत् अभ्यध्यायत् सा सा एनं गन्धर्व्वमकामयत।
एवमप्सरोभिः सह क्रीडन् गन्धर्व्वस्तं कल्याणमाङ्गिरसमभिलक्ष्य अव-
ददब्रवीत्-कल्याणा ३ इति हे कल्याण इति सम्बोध्य '(३)दूराद्धूते चे'ति
प्लुतः। एवं सम्बोध्येदमब्रवीत्-वो युष्माकं यज्ञफलभूतः स्वर्गो लोक
आप्तो वै प्राप्तः स्पृतः प्रीतिकरश्चाऽभूत्। देवयानं तु पन्थानं यूयं न प्रजा-
नीथ। तत्रेदं साम स्वर्यं स्वर्गाय हितं स्वर्गप्राप्तिसाधनम्। तेन साम्ना
स्तुत्वा स्वर्गं लोकमेष्यथ प्राप्स्यथ। यदि त्वां कश्चिदप्राक्षीत् तस्मै अ-
हमेवाऽदर्शमिति अदर्शं अज्ञासिषमिति मा वोचः, अपि तु ऊर्णायुः गन्ध-
र्व्वः प्रावोचदिति ब्रूहीति ॥ १० ॥
एवं गन्धर्व्वेणोक्तः किं कृतवानिति तदाह—
स ऐत्कल्याणः सोऽब्रवीदाप्तो वै नः स्पृतः स्वर्गो लो-
कः पन्थानं तु देवयानं प्रजानीम इदꣳ साम स्वर्यं
तेन स्तुत्वा स्वर्गं लोकमेष्याम इति कस्तेऽवोचदित्यहमे-
वाऽदर्शमिति तेन स्तुत्वा स्वर्गं लोकमायन्नह्येतत् कल्या-
णोऽनृतꣳ हि सोऽवदत्स एषः श्वित्रः ॥ ११ ॥
एवं गन्धर्व्वेणोक्तः स कल्याणः ऐत् पुनराङ्गिरसां समीपमागच्छत्
आगत्य च सोऽब्रवीत् नः अस्माकं स्वर्गो लोक आप्तः स्पृतश्च किल। देव-
यानं तु पन्थानं न प्रजानीमो वयम्। इदमौर्णायवं साम स्वर्यं स्वर्गसाध-
नं देवयानस्य पथो लम्भकम्, तेन स्तुत्वा वयं स्वर्गं लोकमेष्यामो गमि-
ष्याम इति। एवं कल्याणेनोक्ते आङ्गिरसः अपृच्छन् ते तव कः पुरुषोऽवो-
चदुक्तवानिति। न कश्चिदवोचत् अहमेवैतत् साम स्वर्गसाधनत्वेनाद-
र्शमज्ञासिषमिति कल्याणः प्रत्यब्रवीत्। ततस्तेनौर्णायवेन स्तुत्वा स्वर्गं-
[Footnotes]
१. एतन्नामकमप्सरसमिति. ख. पु. ।
२. शब्दायमानं गन्धर्व इयामित्यस्य साम्नो निधनेनैनमुपैत् । उपेत्य च यामप्स-
रसमभ्यादिशत्। सा एवमकामयत। तदनन्तरं ऊर्णायुनामा सः कल्याणमाङ्गिरसम-
भिलक्ष्येति. ख पु. ।