ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 495, कुल 518 में से
संदर्भ में पढ़ेंद्वादशाध्याये एकादशः खण्डः। ४७५
सोमः पवत इत्याद्यास्त्रिष्टुभः सत्योऽपि जागतेन रूपेण योगाज्ज-
गत्यः। तस्माज्जगतीनां स्थाने प्रयुज्यन्ते। किंतज्जागतं रूपम्? उच्यते
‘आतिष्ठति वृषभो गोषु जान’न्निति गोशब्दवत्त्वम्। तथाहि पूर्वं परिगणि-
तं दिग्वस्त्रोमवृषभवत्तत्तृतीयस्याऽह्नो रूपमित्यादिना ॥ ७ ॥
अथ परिप्रियेति प्रथमे तृचे पूर्ववद्गायत्रं साम विधाय तत्स्तावकं
ब्राह्मणमप्यतिदिशति—
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम् ॥ ८ ॥
सिद्धमेतत् ॥ ८ ॥
अथाऽऽवृत्ते(१) तस्मिंस्तृचे सामान्तरं विधत्ते—
और्णायवं भवति ॥ ९ ॥
ऊर्णायुना दृष्टं साम और्णायवम्। तदस्मिन् परिप्रियेति तृचे गा-
तव्यम् ॥ ९ ॥
इदं(२) स्वर्गप्राप्तिसाधनमिति प्रतिपिपादयिषुस्तदर्थमाख्यायिका-
माह—
अङ्गिरसो वै सत्रमासत तेषामाप्तः स्पृतः स्वर्गो-
लोक आसीत्पन्थानं तु देवयानं न प्राजानंस्तेषाङ्कल्या-
ण आङ्गिरसो ध्यायमुदव्रजत् स ऊर्णायुं गन्धर्वमप्सर-
सां मध्ये प्रेङ्खयमाणमुपैत्स इयामिति यां यामभ्यदिश-
त्सैनमकामयत तमभ्यवदत्कल्याणा ३ इत्यासो वै वः
स्पृतः स्वर्गो लोकः पन्थानं तु देवयानं न प्रजानीथेदमूँ
साम स्वर्ग्यं तेन स्तुत्वा स्वर्गं लोकमेष्यथ मा तु वोचो-
हमदर्शामिति ॥ १० ॥
अङ्गिरसः खलु पुरा ऋषयः सत्रयागमन्वातिष्ठन्। तेषामाङ्गिरसां त-
द्यागफलभूतः स्वर्गाख्यो लोक आप्तः पर्याप्तः स्पृतः प्रियहेतुश्चासीत्।
स्पृ प्रीतिचलनयोरिति धातुः। (३)देवयानं देवा यान्त्यनेनेति देवयानः तं
देवयानं तु पन्थानं स्वर्गस्य मार्गं न प्राजानन् (४)नाऽवबुध्यन्त। एवम-
जानतां मध्ये कल्याणनामाऽऽङ्गिरसः ध्यायं, ध्यै चिन्तायामित्यस्मात् ण-
१. तास्मिन्नेवेति क. पु. । २. प्रतिपादयितुमिति. क. ख. पु. ।
३. देवयानः देवान् प्रतिपद्यतेऽनेनेति देवयान इति. क. ख. पु.
४. नाऽबुध्यन्तेति. क. पु. ।