ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 494, कुल 518 में से
संदर्भ में पढ़ें४७४ ताण्ड्यमहाब्राह्मणे
तयोर्न्यां 'त्वामिद्धि हवामहे' इति युष्मच्छब्ददर्शनेन तद्रूपत्वावगतेः। एत-
च्चतुर्थ महरपि बार्हतं बृहत्प्रभवेन वैराजेन साम्ना युक्तत्वात्। अत-
स्त्वमिति बृहतो रूपेण युक्तस्तृचश्चतुर्थेऽहनि सङ्गत इत्यर्थः॥ २॥
अथ तृचान्तरं विधत्ते—
सोमः पुनान ऊर्मिणा ऽव्यंवारं विधावति। अग्रे वाचः
पवमानः कनिक्रददिति ॥ ३ ॥
सोमः पुनान ऊर्मिणेत्ययमार्भवस्य तृतीयस्तृचः॥ ३ ॥
अग्रे वाच इति पदद्वयसूचितमर्थमुपादाय स्तौति—
अग्रꣳ ह्येतर्हि वाचोऽगच्छन्नग्रमेवैतया यजमानं
गमयन्ति ॥ ४ ॥
एतर्हि एतस्मिन् काले चतुर्थस्याऽह्नोऽनुष्ठानसमये (१) अग्रे प्रशस्तं
वाचोऽगच्छन्। अत एतया स्तोत्रीयया यजमानमेवाऽग्रं श्रैष्ठ्यं गमय-
न्ति प्रापयन्ति ॥ ४ ॥
अथाऽन्यं तृचं विधत्ते—
“पुरो जितीवो अन्धस”ति विराजौ वैराजꣳ ह्येतदहः॥५॥
'पुरोजितीवो अन्धस' इत्यार्भवस्य चतुर्थस्तृचः। तस्मिन् तृचे द्वे
विराजौ भवतः—पद्या चाऽक्षरया चेति उत्तरत्र प्रदर्शयिष्यते। एतदहश्च
वैराजं विराट्सम्बद्धम्। अतोऽस्मिन्नहनि अयं तृचः सङ्गत इत्यर्थः॥५॥
(२)अथाऽपरं तृचं विधत्ते—
‘सोमः पवते जनिता मतीना’ मिति प्रातःसवने षोड-
शिनं गृहीतं तं तृतीयसवने प्रजनयन्ति ॥ ६ ॥
'सोमः पवते जनिते'ति जनिधातुयुक्तस्तृचः पञ्चमः। प्रातःसवने
धाराग्रहाणामुत्तमः षोडशी ग्रहो गृह्यते। तं गृहीतं षोडशिनं तृतीयस-
वने प्रजनयन्ति होमयोग्यं जनिधातुयुक्तेनाऽनेन तृचेनोत्पादयन्ति। स-
हि षोडशी तृतीयसवने हूयते। तस्माद्धोमायोत्पादयन्तीत्यर्थः॥ ६ ॥
ननु जागतं तृतीयसवनम्; अयञ्च त्रैष्टुभस्तृचः कथमसौ तत्र सङ्ग-
च्छत इत्यत आह—
त्रिष्टुभः सत्यो जगत्यो रूपेण तस्माज्जग-
तीनां लोके क्रियन्ते ॥ ७ ॥
१. अग्रं पुरस्तादिति. क. ख. पु.
२. अथाऽनन्तरमिति. क. पु. ।