ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 492, कुल 518 में से
संदर्भ में पढ़ें[४७२ ताण्ड्यमहाब्राह्मणे]
कर्म्मणि तृतीया । आज्यं जुहुयादित्यर्थः। अग्नेस्तेजसो वृद्धिहेतुत्वादाज्यं
तेज एव । तथा च (१) यदाज्येन जुहोति तत्तेन तेज एवात्मन्धत्ते ॥१९॥
तस्मिन् होमे मन्त्रं विधाय तस्य विशिष्टफलहेतुतां दर्शयति—
“प्रेद्धो अग्ने दीदिहि पुरो न” इति विराजाऽभिजु-
होत्यन्नं विराडन्नाद्यस्याऽवरुद्ध्यै ॥ २० ॥
'प्रेद्धो अग्ने' इति विराजा विराट्छन्दसा ऋचा अभिजुहोति । गत-
मन्यत् ॥ २० ॥
अथ तृतीयस्य पृष्ठस्तोत्रस्य ‘विश्वाः पृतना' इति यस्तृचो विहित-
स्तत्र गातव्यं साम विधत्ते—
त्रैशोकं ब्रह्मसाम भवति ॥ २१ ॥
त्रिशोकेन दृष्टं साम त्रैशोकम् । तद्ब्रह्मसाम ब्रह्मणः स्तोत्रे पृष्ठत्वेन
कार्य्यम् ॥ २१ ॥
अथाऽस्याऽऽधारभूतानामृचां छन्दोद्वारेण स्तौति—
अतिजगतीषु स्तुवन्त्यह्न उत्क्रान्त्या उद्धा एतेनाऽह्ना
क्रामन्ति ॥ २२ ॥
अतिजगतीषु द्वापञ्चाशदक्षरासु जगतीमतीत्य वर्त्तमानासु ऋक्षु 'वि-
श्वाः पृतना' इत्यादिषु स्तुवन्ति । किमर्थम्? अह्नोऽस्य चतुर्थस्य उत्क्रान्त्यै
उत्क्रान्तिरूध्र्वगतिः । स्वर्गस्य प्राप्तिरिति यावत् । उत्क्रान्तिसाधनताया
इत्यर्थः । जगत्या अप्यूर्द्ध्वगतेन छन्दसा योगादेतेन चतुर्थेनाऽह्ना उत्क्रा-
मन्ति वै ऊर्ध्वं गच्छन्ति स्वर्गप्राप्त्यर्थम् ॥ २२ ॥
अथैतन्निधनद्वारा पापक्षयहेतुरिति स्तौति—
दिवेति निधनमुपयन्ति पाप्मनोऽपहत्यै अप-
पाप्मानꣳ॑हते त्रैशोकेन तुष्टुवानः ॥ २३ ॥
'ओ इदी २३४ वा' इति ह्यस्य निधनमुपयन्ति उपगच्छन्त्युद्गातारः
पाप्मनः पापस्याऽपहत्यै अपक्षयार्थम् । द्युशब्दस्य दीप्तिवचनत्वात्तमो-
विदारकत्वम् । पापं तेन विनाश्यत इत्यर्थः । यस्मादेवं तस्मादनेन
त्रैशोकेन साम्ना तुष्टुवानः स्तुवन् पाप्मानमपहते अपहन्ति वि-
नाशयति ॥ २३ ॥
अथ चतुर्थस्य पृष्ठस्तोत्रस्य साम विधत्ते—
भारद्वाजस्य पृष्ठन्द्यच्छावाकसाम भवति ॥ २४ ॥
[Footnote]
१. यदाज्यं जुहोति तत्तेनेति. क. ख. पु. ।