सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 490, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 490

४७० ताण्ड्यमहाब्राह्मणे
अतस्सामैव विराट् तथा विराट्सु विराट्छन्दस्कास्वृक्षु स्तुवन्ति ।
विष्टम्भाश्च वैराजाः दशसंख्यायोगादयमप्यन्या विराट् । अत एव विरा-
जः समीचीः समन्तात्समूहकृताः दधाति अन्नाद्यार्थम् ॥ १० ॥
अथाऽस्मिन् साम्नि दृश्यमानं गानविशेषं प्रदर्श्य स्तौति—
अनुतुन्नं गायति रेतोधेयायाऽनुतुन्नाद्धि रेतो धी-
यते ॥ ११ ॥
अनुत्वानुत्वेत्यादिकोऽभ्यासोऽनुतोदस्तद्युक्तं गायति । किमर्थम् ?
रेतोधेयाय रेतसः अपत्यहेतोर्वीर्य्यस्य आधानाय निषेकार्थम् । कथम्-
नुतोदाद्रेतस आधानमित्याशङ्क्य लोकप्रसिद्धिमेव तत्र प्रमाणयति-अनु-
तुन्नाद्धीति । अनुतुन्नात् योन्यां(१) शेफसः प्रक्षेपणप्रतिक्षेपणरूपाद्-
नुतोदनात् पुनः पुनरभ्यासात् खलु लोके रेतो