ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 446, कुल 518 में से
संदर्भ में पढ़ेंअथैकादशः खण्डः ।
अथाऽस्याऽह्न उक्थसंस्थत्वादितः परं त्रीण्युक्थस्तोत्राणि कर्त्तव्या-
नि । तत्र मैत्रावरुणोक्थस्य स्तोत्रीयं तृचं विदधाति—
एह्यूषु ब्रवाणि त इत्येहिवत्यो भवन्ति तृतीय-
स्याऽह्न उपह्ववाय सन्तत्यै ॥ १ ॥
एह्यूष्वित्याद्यास्तिस्र एहिवत्य एहीत्यनेन शब्देन युक्ताः प्रथम-
स्योक्थस्य स्तोत्रीया भवन्ति । ताश्च एहीत्यागमनप्रतिपादनात् तृती-
यस्याऽऽगामिनोऽह्नः उपह्ववाय उपह्वानाय भवन्ति । उपह्ववः किमर्थ इति
तत्राह—सन्तत्या इति । उभयोर्द्वितीयतृतीययोरह्नोः सन्तानार्थं भवति ॥ १ ॥
सा कस्मात्कारणादित्यत आह—
अपच्छिदिव वा एतद्यज्ञकाण्डं यदुक्थानि
यदेति सलोमत्वाय ॥ २ ॥
उक्थान्युकथस्तोत्राणीति यत् एतद्यज्ञकाण्डं यज्ञभागः अपच्छिदिव
वै अपच्छिन्नमेव खलु, यज्ञायज्ञीयेनैव प्रकृतस्याऽह्नः परिसमाप्तत्वात् उत्त-
रस्य चाऽनारब्धत्वात् । अतोऽस्य सन्तानार्थं एह्यूषु ब्रवाणि त इत्यादी-
न्युक्थानि उक्थस्तोत्राणि एति प्राप्नोति करोतीति यत् सलोमत्वाय
सारूप्याय अपच्छेदाभावेनैकरूप्याय भवति । अथ वा एति आएति आ-
भिमुख्यवाची उपसर्गोऽस्मिंस्तृचे दृश्यते । ईदृश आकार इति यत् वि-
च्छिन्नयोः परस्पराभिमुख्यप्रतिपादनात् सलोमत्वाय सारूप्यायैव त-
द्भवति ॥ २ ॥
अथ द्वितीयस्योक्थस्य स्तोत्रीयं तृचं विदधाति—
एवाह्यसि वीरयुरिति समानं वदन्तीदमित्थ-
मसदिति ॥ ३ ॥
एवाह्यसि इति तृचः स्तोत्रीयः कार्यः । तास्तिस्र ऋचः समानं स-
दृशमेवाऽर्थं वदन्ति प्रतिपादयन्ति, इदमहरित्थमनेन प्रकारेणाऽसत् अभू-
दिति । तत्र हि एवशब्दपर्यायः एवंशब्दो बहुकृत्वोऽभ्यस्यते तदभिप्रा-
येणेदमित्थमसदिति समानं वदन्तीति व्यपदेशः ॥ ३ ॥
अथ तृतीयस्योक्थस्य स्तोत्रीयं तृचं विदधाति—
इन्द्रं विश्वा अवीवृधन्नित्यवर्द्धन्त ह्येतार्हिँ यज-
मानमेवैतया वर्द्धयन्ति ॥ ४ ॥