ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 439, कुल 518 में से
संदर्भ में पढ़ेंअथ नवमः खण्डः ॥
अथ होतुः पृष्ठस्य स्तोत्रीयं तृचं प्रदर्श्य तस्मिन्नहनि तदानुगुण्यं
दर्शयति--
'त्वामिद्धि हवामह' इति त्वमिति बृहतो रूपं
बार्हतँ ह्येतदहः ॥ १ ॥
त्वामिद्धीत्ययं प्रगाथस्तोत्रीयो भवति । प्रथमस्य पृष्ठस्तोत्रस्य त्वा-
मिति युष्मच्छब्दरूपस्योपलक्षणं त्वामिद्धीति बृहतो योन्यां त्वामिति
युष्मच्छब्दः श्रूयते । अतस्तद्बृहतो बृहत्साम्नो रूपं उत्पत्तिशिष्टत्वात् ।
एतत् द्वितीयमहश्च बार्हतं बृहत्पृष्ठत्वात् । अतोऽस्मिन्नहनि त्वामिद्धीति
प्रगाथस्य करणं युक्तमिति भावः ॥ १ ॥
अथ ब्रह्मणः पृष्ठस्तोत्रस्याऽधारभूतं तृचं विधाय स्तौति—
अभिप्रवः सुराधसमिति युञ्जते वै पूर्वेणाऽह्ना ह्येतेन
प्रयन्ति ॥ २ ॥
पूर्वेण प्रथमेनाऽह्ना यज्ञं युञ्जते प्रारभन्ते । यथा देशान्तरं गच्छन् रथे
अश्वान् युङ्क्ते, एवं यज्ञसमाप्तिं गन्तुं तस्योपक्रम एव क्रियते । तेनाऽह्ना
युक्तं यज्ञं एतेन द्वितीयेनाऽह्ना अभिप्रयन्ति उद्दिश्य प्रकर्षेण गच्छ-
न्ति । अतोऽस्याह्नः अभिप्रायणसाधनत्वादभिशब्दयुक्तोऽयं तृचः
सङ्गत इत्यर्थः ॥ २ ॥
अथाऽच्छावाकपृष्ठस्य स्तोत्रीयं तृचं विधाय तस्य पूर्वोत्तरयोरह्नोः
सन्धानहेतुतामाह—
त्वामिदाह्यो नर इत्यद्य चैव ह्यश्व समारभते
द्विरात्रस्याऽविस्रँसाय ॥ ३ ॥
त्वामिदाह्य इत्यस्मिन् तृचे इदाह्यश्चेति शब्दद्वयं श्रूयते । तयोरय-
मर्थः-इदानीं ह्यः पूर्वेद्युरिति एवं कालद्वयवाचिना तेन अद्य च अद्यत-
नञ्चैव द्वितीयमहः ह्यः पूर्वमहश्च समारभते । समित्येकीभावे एकीकृ-
त्योभयं गृह्णातीति । किमर्थम् ? द्विरात्रस्याऽहर्द्वयस्य अविस्रंसनाय
विस्रंसनाभावार्थं सन्धानार्थमित्यर्थः ॥ ३ ॥
अथाऽद्ये तृचे साम विधाय तस्य द्वितीयेनाऽह्ना सङ्गतिमाह—
बृहद्भवति वर्ष्म वै बृहद्वर्ष्म द्वितीयमहर्वर्ष्मण-
एव तद्वर्ष्मोऽऽक्रमन्ते ॥ ४ ॥