सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 438, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 438

अथैनयोः स्तवनं वृष्टिहेतुरपीति दर्शयति—
एभ्यो वै लोकेभ्यो वृष्टिरपाक्रामत्तामयास्य आया-
स्याभ्यामच्यावयत् च्यावयति वृष्टिमायास्याभ्यां तुष्टु-
वानः ॥ ११ ॥
पुरा एभ्यः पृथिव्यादिभ्यस्त्रिभ्योऽपि लोकेभ्यो वृष्टिः अपाक्रामद्-
पागच्छत्, त्रिष्वपि लोकेष्वनावृष्टिर्जातेत्यर्थः । तामपक्रान्तां वृष्टिं अ-
यास्य ऋषिः आयास्याभ्यामेताभ्यां सामभ्यां साधनभूताभ्यामच्या-
वयदवर्षयत् । स्पष्टमन्यत् ॥ ११ ॥
अथाऽन्नाद्यहेतुत्वेनैते स्तौति—
अन्नाद्यं वाव तदेभ्यो लोकेभ्योऽपाक्रामत्तदयास्य
आयास्याभ्यामच्यावयत् च्यावयत्यन्नाद्यमायास्याभ्यां
तुष्टुवानः ॥ १२ ॥
तत्तत्र वृष्ट्युपक्रमणसमयेऽन्नाद्यं वाव अदनीयमन्नमेवैभ्यो लोके-
भ्योऽपाक्रामत्, वृष्टिमन्तरेण तस्याऽनुत्पत्तेः । निगदसिद्धमन्यत् ॥ १२ ॥
अथ वृषाशोण इति तृतीये तृचे गातव्यं साम विदधाति—
वासिष्ठं भवति ॥ १३ ॥
वसिष्ठस्येदं वासिष्ठम् ॥ १३ ॥
इममेव सम्बन्धं प्रदर्शयन् इदं विशिष्टफलहेतुरित्याह—
वसिष्ठो वा एतेन वैडवः स्तुत्वाऽञ्जसा स्वर्गं लोक-
मपश्यत् स्वर्गस्य लोकस्याऽनुख्यात्यै स्वर्गाल्लोकान्न च्य-
वते तुष्टुवानः स्तोमः ॥ १४ ॥
वैडवो वीडुपुत्रो वसिष्ठः खलु पुरा एतेन साम्ना स्तुत्वा अञ्जसा
आर्जवेन ऋजुगामिनैव मार्गेण स्वर्गं लोकमपश्यत् सम्यगद्राक्षीत् ।
अत एतत्सामेदानीं प्रयुज्यमानं स्वर्गस्य लोकस्याऽनुख्यात्या अनुख्या-
नार्थं सम्यग्दर्शनाय भवति । अपि च तुष्टुवानः स्तुतवान् । स्वर्गाल्लोकात्
सम्यक् दृष्टान्न च्यवते न प्रच्युतो भवति, सर्वदा तत्रैवावतिष्ठत
इत्यर्थः । एवं त्रयस्तृचा आवृत्त्या सह पञ्चदश स्तोत्रीयास्तृचाः स-
म्पन्नाः । अतः पञ्चदशस्तोमो निष्पन्न इत्यर्थः ॥ १४ ॥
इति ताण्ड्यमहाब्राह्मणे सायणीये वेदार्थप्रकाश
एकादशाध्यायस्याष्टमः खण्डः ॥