सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 437, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 437

एकादशाध्याये ऽष्टमः खण्डः । ४१७
पुरा युक्ताश्वो नामाऽङ्गिरसोऽङ्गिरोगोत्रजात ऋषिः जातौ जातमात्रौ
शिशू बालौ स्तनन्धयौ विपर्य्यहरत् विपारिहृतवान् बाधितवान् । अका-
र्य्यस्य करणात् तस्माद्धेर्मन्त्रो वेदोऽपाक्रमदपागमत् । स मन्त्रराहित्ये-
न हीनः सन् पुनस्तत्प्राप्तये तपोऽतप्यत प्रायश्चित्तात्मकं तपस्तेपे । तेन
च तपसा विशुद्धः स ऋषिः एतद्यौक्ताश्वं सामाऽपश्यत् । यस्मात् ए-
तस्य साम्नो द्रष्टारं तमपक्रान्तो मन्त्रः पुनरुपावर्त्तत, तत् ततोऽनन्तरं
तर्हि तस्मिन् काले स खल्वकामयत । किमिति ? यदेतद्यौक्ताश्वं एत-
त्साम कामसनि कामप्रदम् । षणु दाने । ‘छन्दसि वनसनरक्षिमथा’मि-
तीन्प्रत्ययः । तस्मादनेन साम्ना यः स्तौति स कामं काम्यमानमभिलषि-