ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 436, कुल 518 में से
संदर्भ में पढ़ेंइमा विहिता गायत्र्यो वृषण्वत्यो वृषण्छब्दयुक्ता भवन्ति । वृष-
ण्वत्वञ्च त्रिष्टुभो रूपम् , तस्मात्त्रिष्टुभो रूपेण युक्तत्वात् द्वितीयेऽहनि
विनियोगार्हाः । एतदहश्च त्रैष्टुभं हि त्रिष्टुप्सम्बद्धम् । हिशब्दः प्रसि-
द्धौ। सा च पूर्वमेव दर्शिता ॥ २ ॥
अथाऽपरं स्तोत्रीयं तृचं विदधाति-
पुनानस्सोमधारयेति धृत्यै ॥ ३ ॥
पूर्ववद्योज्यम् ॥ ३ ॥
अथाऽन्यं स्तोत्रीयं तृचं विधत्ते--
वृषाशोणो अभिकनिक्रदद्गा इति ॥ ४ ॥
स्पष्टम् ॥ ४ ॥
अस्य त्रैष्टुभे द्वितीयेऽहनि सङ्गतिमाह--
वृषण्वत्यस्त्रिष्टुभो रूपेण समृद्धा वृषण्वद्वा एतदैन्द्रं त्रै-
ष्टुभमहर्यत् द्वितीयं तदेव तदभिवदति ॥ ५ ॥
यत् वृषा शोण इत्याद्या वृषण्वत्यो वृषशब्दयुक्ताः अतस्त्रिष्टुभो रू-
पेण समृद्धाः सम्पूर्णाः एतदहश्चैन्द्रं इन्द्रदेवतयं त्रैष्टुभं त्रिष्टुप्छन्द-
स्कं वृषण्वद्वै वृषच्छब्दयुक्तमेव वृषवद्वृत्रहवदित्यादिना वृषशब्दस्य
तद्रूपत्वेनोक्तत्वात् । दशरात्रस्य यत् द्वितीयमहः एतदिति सम्बन्धः
तद्वृषा शोण इत्यादिकं मन्त्रवाक्यं तदेव वृषण्वदेव द्वितीयमहरभिव-
दति अभिलक्ष्य ब्रवीति ॥ ५ ॥
अथ वृषा पवस्वेति प्रथमे तृचे गातव्यं साम विधाय पूर्वमाम्ना-
तं तद्ब्राह्मणञ्चातिदिशति।
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम् ॥ ६ ॥
सिद्धमेतत् ॥ ६ ॥
अथाऽस्मिन्नेव तृचे पुनरावृत्ते गातव्यं सामान्तरं दर्शयति--
यौक्ताश्वं भवति ॥ ७ ॥
युक्ताश्वेन दृष्टं साम यौक्ताश्वम् ॥ ७ ॥
अथाऽस्य कामप्राप्तिहेतुतां विवक्षुराख्यायिकामाह-
युक्ताश्वो वा आङ्गिरसः शिशू जातौ विपर्य्यहर-
त्perspectiveत्तस्मान्मन्त्रोऽपाक्रामत्स तपोऽतप्यत स एतद्यौक्ताश्व-
मपश्यत्तं मन्त्र उपावर्त्तत तद्भाव स तर्ह्यकामयत काम-
सनि साम यौक्ताश्वं काममेवैतेनाऽवरुन्धे ॥ ८ ॥