ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 435, कुल 518 में से
संदर्भ में पढ़ेंएकादशाध्याये ऽष्टमः खण्डः । ४१५
निराहो निराहावो निष्कृष्य सम्बोद्ध्याऽऽह्वानं तदुपस्थितं समीपे
स्थितं सार्थकम्, न तु शब्दतः, एतत् येषु तानि निराहोपस्थितानि तादृ-
शान्याज्यस्तोत्राणि भवन्ति । उपस्थितत्वलिङ्गञ्च बृहत एवाऽसाधारणं
रूपं न रथन्तरस्येति 'उपस्थितं द्वितीयस्याऽहो रूप'मित्यादिना प्र-
त्यपादि ॥ २ ॥
कानि पुनस्तथाविधान्याज्यानि ? तानि दर्शयति—
अग्निं दूतं वृणीमहे मित्रं वयꣳ हवामह इन्द्रमि-
द्गाथिनो बृहदिन्द्रो अग्ना नमो बृहदिति बार्हतमेव तद्रू-
पं निर्द्योतयति स्तोमः ॥ ३ ॥
एषु चतुर्ष्वपि उपस्थितात्मकं बार्हतं रूपं दृश्यते । इन्द्रमिद्गाथिनो
बृहत् 'इन्द्रो अग्ना नमो बृह'दिति बृहच्छब्दो दृश्यते । स च शब्दसामा-
न्यात् बृहत्सामाऽवगमयति । तत्तेन बार्हतमेव रूपं निर्द्योतयति प्रका-
शयति स्तोमश्चामीषामुक्तः पञ्चदश एव भवति । एवं प्रातःसवनि-
केषु पञ्चसु स्तोत्रेषु उक्तासु स्तोत्रीयासु प्राकृतमेव गायत्रं साम गातव्यम्
सामान्तरस्य विध्यभावात् ॥ ३ ॥
इति ताण्ड्यमहाब्राह्मणे सायणीये वेदार्थप्रकाशे
एकादशाध्यायस्य सप्तमः खण्डः ॥ ७ ॥
अथाऽष्टमः खण्डः ॥
अथ माध्यन्दिनपवमानस्य त्रयः स्तोत्रीयास्तृचा विधित्सिताः तत्र
प्रथमं विदधाति—
वृषा पवस्व धारयेति गायत्री भवत्यह्नो धृत्यै ॥ १ ॥
'वृषा पवस्व धारये'ति गायत्री गायत्रच्छन्दस्का प्रतिपद्भवति प्रथम-
स्तृचो भवतीत्यर्थः । धारयेति शब्देन धृञ् धारण इत्यस्य धातोः प्रत्य-
भिज्ञानात् एषा प्रतिपत् अस्य द्वितीयस्याऽह्नो धृत्यै धारणाय स्थैर्याय
भवति ॥ १ ॥
ननु गायत्रं वै प्रथममहस्त्रैष्टुभं द्वितीयं जागतं तृतीयमित्यादिना
द्वितीयस्याऽह्नस्त्रैष्टुभत्वं प्रतीयते । कुतस्तत्र गायत्र्यो विनियोज्यन्त इति,
तत्राऽऽह—
वृषण्वत्यस्त्रिष्टुभो रूपेण त्रैष्टुभꣳ ह्येतदहः ॥ २ ॥