ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
DevanagariSanskritpublished518 पृष्ठ
पृष्ठ 433, कुल 518 में से
संदर्भ में पढ़ेंपृष्ठ 433
एकादशाध्याये षष्ठः खण्डः । ४१३
“पवस्वेन्दो वृषासुत” इति तृचोऽनुरूपाख्यो द्वितीयो भवति । तदे-
तत् द्वितीयमहस्तदैन्द्रं इन्द्रदेवत्यं त्रैष्टुभं त्रिष्टुप्छन्दस्कं वृषणवत् वृष-
शब्दयुक्तं च भवति । वृषवद्भूतृहवद्रयिमद्विश्वत्रवदुपस्थितामिति रूपस्य
द्वितीयेऽहनि परिगणितत्वात्तदेव वृषणवद्रूपम् । तत् पवस्वेन्दो वृषा
सुत इति मन्त्रवाक्यं अभिवदति अभिलक्ष्य ब्रवीति ॥ ३ ॥
अथाऽस्य तृचस्याऽनुरूप इति संज्ञां निर्वक्ति—
पूर्वमु चैव तद्रूपमपरेण रूपेणाऽनुवदति यत्पूर्वꣳ रूपम-
परेण रूपेणाऽनुवदति तदनुरूपस्याऽनुरूपत्वम् ॥ ४ ॥
“पवस्व वाचो अग्रिय” इति प्रथमतृचेन प्रतिपाद्यं यदर्थरूपं पूर्वमु
च पूर्वभावि, तदेव च रूपं अपरेण द्वितीयतृचप्रतिपाद्येन पश्चाद्भा