सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 432, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 432

४१२ ताण्ड्यमहाब्राह्मणे
तस्याऽग्निष्टोमसाम्नः स्तोमक्लप्तिं प्रदर्श्य स्तौति—
त्रिवृदेव स्तोमो भवति तेजसे ब्रह्मवर्चसाय ॥ २९ ॥
गतार्थः ॥ २९ ॥
इति ताण्ड्यमहाब्राह्मणे सायणीये वेदार्थप्रकाशे
एकादशाध्यायस्य पञ्चमः खण्डः ॥
अथ षष्ठः खण्डः ॥
त्रिवृदग्निष्टोमस्य दाशरात्रिकस्य प्रथमस्याऽह्नः स्तोमक्लप्तिर्वि-
हिता। अथ पञ्चदशस्तोमकस्य उक्थ्य द्वितीयस्याऽह्नः स्तोमक्लृ-
प्तिरभिधीयते। तत्र बहिष्पवमानस्य प्रतिपत्तृचं विदधाति—
“पवस्व वाचो अग्रिय” इति द्वितीयस्याऽह्नः
प्रतिपद्भवति ॥ १ ॥
प्रतिपद्यते प्रारभ्यतेऽनयेति प्रतिपत्। पवस्व वाचो अग्रिय इति
प्रथमतृच इत्यर्थः ॥ १ ॥
वृत्तवर्तिष्यमाणयोरह्नोः सन्धानहेतुरित्येतत् स्तौति—
पवस्वेति वै राथन्तरं रूपमग्रिय इति बार्हतमुभे रूपे
समारभते द्विरात्रस्याऽविस्स्रंसाय ॥ २ ॥
अस्यामृचि यत्पवस्वेति पवनप्रतिपादकं पदं तत् खलु राथन्तरं
रथन्तरसम्बन्धरूपं युञ्जानं प्रथमस्याऽह्नो रूपमित्यादिना तद्रूपस्योक्त-
त्वात्। अग्रिय इति पदं तु बार्हतं बृहतो रूपं अग्रे भवोऽग्रियः बृहच्च
रथन्तरादग्रे जातत्वादग्रियं भवतीति शब्दसामान्येन तद्रूपता। तथा
च पवस्व वाचो अग्रिय इति प्रतिपदा बृहद्रथन्तरयोः साम्नोः स्वरूपे
स्वभूते उभे द्वे अपि रूपे समारभते परिगृह्णाति। द्विरात्रस्य पूर्वमनुष्ठि-
तस्याऽह्नोऽस्याऽनुष्ठास्यमानस्य च अह्नोर्द्विरात्रस्य द्वयहस्याऽविस्स्रंसाय
ऽशैथिल्याय सन्धानायेत्यर्थः। राथन्तरं हि पूर्वमहः। अत्र च तद्रूपा-
न्वयात् सन्धानं भवति ॥ २ ॥
अथ तस्यैव बहिष्पवमानस्य द्वितीयं तृचं विधत्ते—
‘पवस्वेन्दो वृषासुत’ इत्यनुरूपो भवति वृषण्वद्वा एत-
दैन्द्रं त्रैष्टुभमहर्यत् द्वितीयं तदेव तदभिवदति ॥३॥