सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 395, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 395

प्रथमे त्रिरात्रे प्रयुञ्जते ; तत्र अष्टावेकादश द्वादशेति आनुष्टुभाक्षरसं-
ख्यया भूयस्त्वेनोपलम्भात् । द्वितीये तु त्रिरात्रे तिरश्चीं तिरोऽञ्चतीं अन्त-
र्द्धानं प्राप्नुवन्तीं आसते तत्र हि त्रीण्येकाक्षराणि विभज्य प्रत्यहं एकै-
कमक्षरमानुष्टुभं संयोजितम् । अतोऽक्षरस्याऽल्पीयस्त्वात् तस्यास्ति-
र्यक्त्वम् । अथ तृतीये त्रिरात्रे पराञ्चीं परावृत्तां परोक्षमेवाऽनुष्टुभमासते;
तत्र हि अनुष्टुभः सकाशादुत्पत्तेः। छन्दोभिर्गायत्र्यादिभिः स्तोमसंख्या-
साम्यमनुष्टुभो व्याप्तिहेतुरिति वर्णितं आत्माभिमुखं तिर्यञ्चं तिरश्चीनं
अन्यथावृत्तमुखं पराञ्चं परावृत्तं पारोक्ष्यस्थितञ्चोपजीवन्ति ॥ १२ ॥
अथ छन्दसां व्यूहनप्रकारं विधित्सुराह—
छन्दांसि वा अन्योन्यस्य लोकमभ्यध्यायन् गायत्री
त्रिष्टुभस्त्रिष्टुब्जगत्या जगती गायत्र्यास्तानि व्यौहन्-
यथा लोकं ततो वै तानि यं यं काममकामयन्त तम-
सन्वन् ॥ १३ ॥
छन्दांसि वै गायत्रीत्रिष्टुब्जगत्यात्मकानि छन्दांसि अन्योन्यस्य
लोकं स्थानं अभ्यध्यायन् एतेषां हि क्रमेण प्रातःसवनादीनि सवनानि
स्थानतया क्लृप्तानि गायत्रं प्रातःसवनं ॥ १३ ॥
यत्कामो व्यूढच्छन्दसा द्वादशाहेन यजते सोऽस्मै
कामः समृध्यते ॥ १४ ॥
द्वादशाहेन यजते स कामः काम्यमानोऽर्थः अस्मै यजमानाय समृ-
ध्यते । एतदुक्तं भवति-द्वादशाहस्तावत् द्विविधः-सत्रात्मकोऽहीनात्म-
कश्च। पुनरपि प्रत्येकं द्वेधा भवति-समूढो व्यूढश्चेति। यत्रोक्तं व्यूहनं न
क्रियते स समूढः, अपरस्तु व्यूढः । स कामप्राप्तिहेतुरिति अस्मिन्
ब्राह्मणे प्राधान्येन प्रतिपाद्यत्वात् श्रूयते ॥ १४ ॥
अथैतं द्वादशाहं देवानां स्थानत्वेन स्तौति—
ओको वै देवानां द्वादशाहो यथा वै मनुष्या इमं
लोकमाविष्टा एवं देवता द्वादशाहमाविष्टा देवता ह वा
एतेन यजते य एवं विद्वान् द्वादशाहेन यजते ॥ १५॥
योऽयं द्वादशाहः स देवानामोकः स्थानं वै । तदेवोपपाद्यते-यथा खलु
मनुष्या इमं लोकमाविष्टाः एवं देवता द्वादशाहमाविष्टाः । तथा सति