ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 393, कुल 518 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the page into Devanagari:
विस्तारितस्य असंव्याथाय संव्याथस्सञ्चलनं, व्यथ भयचलनयोरिति
धातुः, चलनाभावाय दार्थ्याय एते मयूखाः प्रान्तेषु निखातव्याः श-
ङ्कवः । यत् यैषा गायत्री सर्वद्वादशाहं व्याप्नुवती गायत्री कृत्स्नमेव
द्वादशाहं द्रढयतीत्यर्थः ॥ ६ ॥
अथोक्तप्रत्युक्त्या सहदृष्टान्तं द्वादशाहो गायत्र्यां प्रतिष्ठित इति
प्रदर्शयति—
गिरिक्षिदौच्चामन्यवेति होवाचाऽभिप्रतारी काक्ष-
सेनिः कथं द्वादशाह इति यथाऽरानेमिः पर्येत्येवमेनं
गायत्री पर्येत्यविस्रंसाय यथाऽरा नाभौ धृता एवम-
स्यां द्वादशाहो धृतः ॥ ७ ॥
उच्चामन्युपुत्रो गिरिक्षिन्नामकः कश्चिदृषिः । हे औच्चामन्यव
गिरिक्षित् ! इति तं सम्बोध्य काक्षसेनिः कक्षसेनस्य पुत्रः अभिप्रतारी