ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 392, कुल 518 में से
संदर्भ में पढ़ें३७२ ताण्ड्यमहाब्राह्मणे
एवं प्रथममध्यमोत्तमानां त्रिरात्रगतानामह्नां गायत्रत्वं (१) "गायत्रो वा ऐन्द्र
वायवो गायत्रं प्रायणीयमह"रित्यादिना शाखान्तरे स्पष्टमाम्नातम्। यद्वा
प्रथमे त्रिरात्रे त्रीण्यपि प्रातःसवनानि गायत्राणि। मध्ये तु माध्यन्दिन-
सवनानि। उत्तमे त्रिरात्रे तु तृतीयसवनानि गायत्राणि एतदेका गायत्री।
सप्तममहश्चतुर्विंशस्तोम कम्। अत एतद्द्वयं संख्याद्वारेण सम्बद्धम् ! तेन
सप्तमाह्नः सम्बन्धेन तृतीयस्त्रिरात्रोऽक्षरैर्धृत इत्युच्यते ॥ ४ ॥
अथोक्तप्रकारेण गायत्र्यास्त्रिरात्रव्याप्तिं स्तौति—
तेजसा वा एते प्रयन्ति तेजो मध्ये दधति तेजो-
ऽभ्युद्यन्ति, ज्योतिषा वा एते प्रयन्ति ज्योतिर्मध्ये
दधति ज्योतिरभ्युद्यन्ति, चक्षुषा वा एते प्रयन्ति चक्षु-
र्मध्ये दधति चक्षुरभ्युद्यन्ति, प्राणेन वा एते प्रयन्ति
प्राणं मध्ये दधति प्राणमभ्युद्यन्ति, ये गायत्र्या प्रयन्ति
गायत्रीं मध्ये दधति गायत्रीमभ्युद्यन्ति ॥ ५ ॥
ये यजमाना गायत्र्या गायत्रीछन्दसा प्रयन्ति प्रगच्छन्ति प्रथमं
त्रिरात्रमारभन्ते एते तेजसा वै तमसो निवर्त्तकभालोकादिकं तेजस्ते-
नैव प्रयन्ति प्रारभन्ते। ये गायत्रीं मध्ये दधति द्वितीयं त्रिरात्रं माध्य-
न्दिनसवनेषु धारयन्ति एते तेज एव मध्ये दधति स्थापयन्ति। ये
गायत्रीमभिलक्ष्योद्यन्ति उद्गच्छन्ति गायत्रैस्तृतीयसवनैस्तृतीयं त्रिरात्रं
समापयन्ति। एते पूर्वोक्तं तेजोऽभिलक्ष्योद्यन्ति उदयनं समापनं कुर्व-
न्ति। एवमुत्तरेषु त्रिषु पर्यायेषु योज्यम्। तेजसा तेजःशब्दाभिधेयेन
अग्न्यादिना अन्यं प्रकाशं ज्योतिः चष्टेः पश्यतिकर्म्मणः चक्षुर्ज्योति-
रन्यं ज्ञानं चक्षुः प्राणापानादिपञ्चवृत्त्यात्मकः प्राणः। गायत्र्याश्च तेज-
आदिसम्बन्धः 'तेजो वै गायत्री' 'ज्योतिर्वै गायत्री'त्यादिवाक्यशेषैरधि-
गन्तव्यः ॥ ५ ॥
अथैनं द्वादशाहं वस्त्रात्मकत्वेन रूपयन् विस्तार्यमाणस्य तस्य
प्रान्तदार्ढ्यहेतुशङ्कुसङ्गत्यैतां गायत्रीं स्तौति—
तन्त्रं वा एतद्वितायत यदेष द्वादशाहस्तस्यैते मयू-
खा यद्गायत्र्यसंश्याथाय ॥ ६ ॥
तायते विस्तार्यत इति तन्त्रं वस्त्रम्। एतदेव वै एतद्वितायते विस्तीर्यते।
(२) तनोतेर्यकी"ति अनुनासिकस्याकारः। यत् य एष द्वादशाहस्तस्य
१. तै. सं. ७. २. ८.
२. पा. सू. ६. ४. ४४.