ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 391, कुल 518 में से
संदर्भ में पढ़ेंयस्मात्प्रथमस्त्रिरात्रो गायत्रमुखो भवति तस्मात्तेजोरूपाया गाय-
त्र्याः प्रथमतः प्रयुक्तत्वात् तत्प्रदेशादारभ्य ऊर्ध्वं ऊर्ध्वाभिमुखः सन्
अग्निर्दीप्याय ज्वलति । यस्मात् द्वितीयस्त्रिरात्रो गायत्रमध्यः तस्माद्गा-
यत्र्या मध्यतः प्रयोगात् द्यावापृथिव्योर्मध्ये तिर्यङिति तिरश्चीनो
वायुः पवते । यस्मात् तृतीयस्त्रिरात्रोत्तमः तस्माद्गायत्र्या उपरिस्थित-
त्वादादित्यो द्युलोकस्योपर्य्यवस्थाय अवाक् अवाङ्मुखस्तपति प्रका-
शयति ॥ २ ॥
अथ प्रकारान्तरेण एतेषां त्रिरात्राणां गायत्रीसम्बन्धं स्तौति—
तेजसा वै गायत्री प्रथमं त्रिरात्रं दाधार पदैर्द्विती-
यमक्षरैस्तृतीयम् ॥ ३ ॥
यैषा गायत्री चतुर्विंशत्यक्षरात्मिकाऽग्निना तेजसैव प्रथमं त्रिरात्रं
दाधार धारयति । पदैः पादैर्द्वितीयं त्रिरात्रम् । अक्षरैरात्मी