ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
DevanagariSanskritpublished518 पृष्ठ
पृष्ठ 390, कुल 518 में से
संदर्भ में पढ़ेंपृष्ठ 390
३७० ताण्ड्यमहाब्राह्मणे
जामित्वदोषो न भवतीत्यर्थः ॥ ८ ॥
अथ दशरात्रस्योपरिभागे अष्टमनवमदशमेष्वहःस्वपि रथन्तरस्य
त्रिरुपायनं विधत्ते—
त्रिर्वैवोपरिष्टाद्रथन्तरमुपयन्ति त्र्यावृद्धै वाक् सर्वा-
मेव वाचमवरुध्य सर्वमन्नाद्यं द्वादशाहादुत्तिष्ठन्ति ॥९॥
उपरिष्टाद्दशरात्रस्योपरितनेष्वपि त्रिष्वप्यहःसु एवमेव रथन्तरं त्रि
रुपयन्ति त्रिवारमुपगच्छेयुः । अन्यत् पूर्ववद्व्याख्येयम् । सर्वां वाचं स-
र्वमन्नाद्यं प्राप्य द्वादशाहादनुष्ठिताद्यागादुत्तिष्ठन्ति उत्क्रामन्ति तं
परिसमापयन्तीत्यर्थः । अत्रापि पूर्ववत् । जामित्वशङ्कापरिहरश्च पूर्व-
वद्योजनीयः । दशमेऽहन्यपि प्रत्नवत्यः प्रतिपद इति व्याख्यास्यति ।
अतः पूर्ववदजामित्वम् ॥ ९ ॥
इति