ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 364, कुल 518 में से
संदर्भ में पढ़ें३४४ ताण्ड्यमहाब्राह्मणे
य ऋत्विजो मृताय यजमानायोक्तं क्रियाकलापं कुर्व्वन्ति । एते
पथो मार्गान् वर्त्तमानयज्ञलक्षणान् यन्त्यपिगच्छन्तीति ब्रह्मवादिन
आहुः। तस्य चेदं समाधानम्-ऐन्द्रवायवाग्रान्, ऐन्द्रवायवो ग्रहोऽग्रे
प्रथमो येषां ते तथोक्ताः, तथाविधान् ग्रहान् गृह्णते गृह्णीयुः । तदग्रत्वं
हि प्राकृतं विकल्पितम्-'यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान्
ग्रहान् गृह्णीयात्। यदि बृहत्सामा शुक्राग्रान् यदि जगत्सामा आग्रयणा-
ग्रा"निति । अतोऽत्र नित्यार्थे पुनर्विधानम् । तथा च यस्मात्पथो यज्ञ-
मार्गात् पूर्वे प्रच्युतास्तमेव पन्थानं पुनरपियन्त्यापिगच्छन्ति ॥ ११ ॥
अथाऽस्मिन् यज्ञे बहिष्पवमानस्याऽग्निपावमानी प्रतिपद् कार्येति
विधत्ते-
'अग्न आयूंषि पवस' इति प्रतिपत्कार्थ्या य एव