ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 361, कुल 518 में से
संदर्भ में पढ़ेंनवमाध्यायेऽष्टमः खण्डः । ३४१
उत्तरोत्तरसंस्थाया विद्यमानत्वात् । तत्र च तस्य सोमस्योपयोगसम्भ-
वात् । अतिरात्रादूर्ध्वमन्यत् संस्थान्तरं नास्तीत्यतिरिक्तः सोम उपयो-
गाभावान्निरर्थको भवेत् । अतोऽत्रैव प्रायश्चित्तमिति विशेषद्योतनाय
तुशब्दः ॥ ११ ॥
ननु पूर्वं तृतीयसवनात् सोमातिरेके गौरीवितं साम विहितम् ।
तत्परित्यज्य कुतो बृहतो विधानमित्यत आह—
अमुं वा एष लोकं निकामयमानोऽभ्यतिरिच्यते यो
रात्रेरतिरिच्यते बृहता स्तुवन्ति बृहदमुं लोकमाप्तुमर्ह-
ति तमेवाऽऽप्नोति ॥१२॥
यः सोमो रात्रेरतिरात्रसंस्थाया अतिरिच्यते । अमुं स्वर्गाख्यमेव
लोकमेष निकामयमानोऽभ्यतिरिच्यते । अतिरात्रादधिकस्य संस्थान्त-
रस्यानभावात् साम्नां मध्ये बृहत्सामैवाऽमुं स्वर्गं लोकमाप्तुमर्हति
नान्यत्(१) ‘इयं वाव रथन्तरमसौ वै लोको बृहत्’ इति श्रुतेः । अतः
स्वर्गं निकामयमानमतिरिक्तमेवाऽसौ बृहता प्राप्नोति ॥ १२ ॥
इति ताण्ड्यमहाब्राह्मणे वेदार्थप्रकाशसहिते नवमाध्यायस्य
सप्तमः खण्डः ॥
अथाऽष्टमः खण्डः ॥
अत्र सत्रमध्ये दीक्षितानां मरणे कर्त्तव्यं विधत्ते—
यदि दीक्षितानां प्रमीयेत दग्ध्वाऽस्थीन्युपनह्य यो
नेदिष्ठी स्यात्तं दीक्षित्वा सह यजेरन् ॥ १ ॥
सत्रार्थं दीक्षितानां दीक्षणीयेष्ट्या संस्कृतानां मध्ये यदि कश्चित्प्र-
मीयेत म्रियेत तदा तन्निर्मन्थेन विधिवद्दग्ध्वा कृष्णाजिनेऽस्थीन्यु-
पनह्य मार्जालीयेऽतिदध्यात् । ततोऽस्य मृतस्य यो नेदिष्ठी स्यादन्ति-
कतमः पुत्रादिः स्यात्तं दीक्षित्वा मृतप्रतिनिधित्वेन तं नेदिष्ठिनं
दीक्षासंस्कृतेन तेन सह यजेरन् प्रक्रान्तं सत्रमनुतिष्ठेरन् ॥ १ ॥
१. तै. सं. ३. १. ७.
२. वाक्यमिदमधिकृत्य विचारः पूर्वमीमांसायां दशमद्वितीयाष्टादशे ( १०.२.१८ )
द्रष्टव्यः ।