ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
DevanagariSanskritpublished518 पृष्ठ
पृष्ठ 360, कुल 518 में से
संदर्भ में पढ़ेंपृष्ठ 360
३४० ताण्ड्यमहाब्राह्मणे
रश्मय उच्यन्ते, तैराविष्टो भवतीति' यद्वा शिपयः पशवस्तैराविष्टः शि-
पिविष्टः(१) ‘यज्ञो वै विष्णुः पशवः शिपिः' इति श्रुत्यन्तरात्तादृशो वि-
ष्णुर्यज्ञो वै यज्ञ रूप एव। अत एतद्देवत्यासु स्तुतेन यज्ञात्मक एव विष्णौ
प्रतितिष्ठति यदेतद्गौरीवीताख्यं साम तदतिरिक्तं विभज्यमानाया वेदा-
त्मिकाया वाचोऽधिकं(२) ‘देवा वै वाचं व्यभजन्त तस्या यो रसोऽत्य-
रिच्यत तद्गौरीवितमभवत्' इति श्रुतेः। तथा सत्यतिरिक्ते सवनादधिक
एव सोमे तदतिरिक्तं साम दधाति निदधाति । तेन साम्नाऽतिरिक्त-
दोषं शमयतीत्यर्थः ॥ १० ॥
अथ तृतीयसवने सोमातिरेके पक्षान्तरमाह—
एतदन्यत् कुर्युरुक्थानि प्रणयेयुरुक्थानि वा एष
निकामयमानोऽभ्यति