सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 359, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 359

नवमाध्याये सप्तमः खण्डः । ३३९
निकामयमानो नितरामिच्छन्नतिरिच्यते । यस्मादेवं तस्मादादित्यव-
तीषु 'बण्महाँ असि' इत्यादित्यशब्दयुक्तासु स्तुवन्ति । आदित्यदेवता हि
तृतीयसवनमादित्यग्रहेण हि तृतीयसवनं प्रारभ्यते । यस्मादेष मा-
ध्यन्दिनात् सवनादतिरिक्तं तस्मादु तस्मादेव बृहतीषु स्तुवन्ति
माध्यन्दिनं सवनं बार्हतम् हि(१) 'पुनानः सोम धारया(२) 'अभि त्वा
शूर' इत्यादीनां बृहतीनां तत्र विनियुज्यमानत्वात् ॥ ७ ॥
प्रातःसवनवदस्य स्तोमक्लृप्तिं होतुरनुशंसनञ्च सार्थवादं विधत्ते—
यस्मात् स्तोमादतिरिच्येत स एव स्तोमः कार्यः
सलोमत्वायैन्द्रावैष्णवं होताऽनुशंसति वीर्यं वा इन्द्रो
यज्ञो विष्णुर्वीर्य एव यज्ञे प्रतितिष्ठति ॥ ८ ॥
पूर्व्वव्याख्येयम्। एतावांस्तु विशेषः—अथैन्द्रावैष्णवमिति ।(३) 'महाँ
इन्द्रो नृवत्' (४) 'विष्णोर्नुकम्' इत्येतदादिकमेवैन्द्रावैष्णवं शंसनीयम् ।
तथा चाऽऽश्वलायनसूत्रम्-(५) 'माध्यन्दिने बण्महाँ असि सूर्य·
(६) 'उदुत्यद्दर्शितं वपु'रिति प्रगाथौ स्तोत्रीयानुरूपौ । 'महाँ इन्द्रो नृवत्'
'विष्णोर्नुक'मिति ॥८॥
अथ तृतीयसवने सोमातिरिक्ते प्रायश्चित्तं विधत्ते—
यदि तृतीयसवनादतिरिच्येत विष्णोः शिपिविष्ट-
वतीषु गौरीवितेन स्तुयुः ॥ ९ ॥
यदि तृतीयसवनात्सोमोऽतिरिच्यते विष्णोः शिपिविष्टवतीषु
स्तुवन्ति ॥ ९॥
कोऽतिशयः सामान्तरं परित्यज्य गौरीवितेन स्तुतौ ? किं वा
प्रयोजनमिति ? तदुभयं दर्शयति—
यज्ञो वै विष्णुश्शिपिविष्टो यज्ञ एव विष्णौ
प्रतितिष्ठत्यतिरिक्तं गौरीवितमतिरिक्त एवाऽतिरिक्तं
दधाति ॥ १० ॥
शिपयो रश्मयस्तैराविष्टः शिपिविष्टः। तथा च यास्कः(७) 'शिपयोऽत्र
१. सा. सं. पू. ६. १. ३. १. २. सा. सं. पू. ३. १. ५. १.
३. ऋ. सं. ४. ६. ७. ४. ऋ. सं. २. २. २४.
५. आश्व.श्रौ.पू.अ. ६.ख.७.सू.६. ६. ऋ. सं. ५. ५. १०. ७. निरु ५. २.८.