सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 358, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 358

३३८ ताण्ड्यमहाब्राह्मणे

इन्द्रश्च विष्णुश्चेन्द्राविष्णू तद्देवताकं शस्त्रं होताऽनुशंसति। ऐन्द्री-
भिर्वैष्णवीभिश्च स्तोत्रानुशंसनं कार्य्यमित्यर्थः। तथाचोक्तं सूत्रकृताऽऽ-
श्वलायनेन(१) “प्रातस्सवने(२)ऽस्ति सोमो अयं सुतः'(३)'गौर्द्धयति मरु-
ता'मिति स्तोत्रीयानुरूपौ। (४)'महां इन्द्रो य ओजसा' (५)'अतो देवा
अवन्तु न' इत्यैन्द्रीभिर्वैष्णवीमिश्च स्तोममतिशस्ये”ति ॥ ४ ॥
उक्तमुभयदेवत्यत्वं प्रशंसति—
वीर्यं वा इन्द्रो यज्ञो विष्णुर्व्वीर्य्य एव यज्ञे प्रतितिष्ठति ॥५॥
वीर्य्यं वै वर्य्यरूप एवेन्द्रः, प्रजापतेः सकाशाद्वीर्यवतो बाह्वोरि-
न्द्रस्योत्पन्नत्वात्। विष्णुश्च यज्ञः। एवमुभयदेवतासु शंसनेन वीर्ये वीर्य-
युक्त एव यज्ञे यजमानः प्रतितिष्ठतीति ॥ ५ ॥
अथ माध्यन्दिने सोमातिरिक्ते प्रायश्चित्तं विधत्ते—
यदि माध्यन्दिनात्सवनादतिरिच्येत(६) 'वण्महाँ अ-
सि सूर्य्य'त्यादित्यवतीषु गौरीवितेन स्तुयुः ॥ ६ ॥
यदि माध्यन्दिनात् सवनात् यदि माध्यन्दिनसवनसमाप्तेरूर्ध्वं
सोमोऽतिरिच्यते माध्यन्दिनस्याऽन्त्यचमसगणे हुते सोमोऽधिको
दृश्यते चेत्तदा तं सोममध्वर्य्यश्चमसेषून्नीय स्तोत्रमुपाकुर्व्वन्ति। तत्रो-
द्गातारः 'वण्महाँ असि सूर्य्य' इत्यादित्यवतीष्वादित्यशब्दयुक्तास्वृक्षु
गौरीवितेन गौरीवितिना ऋषिणा दृष्टं गौरीवितं(७) 'अभि प्र गोपतिं
गिरा' इत्यस्यामुत्पन्नं साम गौरीवितं तेन साम्ना स्तुयुः । तत्साम
एतासूहेन कर्त्तव्यमित्यर्थः ॥ ६ ॥
अस्याऽतिरिक्तसोमस्य सवनद्वयान्तरालवर्त्तित्वेनोभयरूपस्याऽऽ-
दित्यवतीषु बृहतीषु स्तूयमानं गौरीवितमनुगुणमित्याह—
तृतीयसवनं वा एष निकामयमानोऽभ्यतिरिच्यते यो
माध्यन्दिनात्सवनादतिरिच्यते तस्मादादित्यवतीषु स्तु-
वन्त्यादित्यं हि तृतीयसवनं तस्मादु बृहतीषु बार्हतं हि
माध्यन्दिनं सवनम् ॥ ७ ॥
यो माध्यन्दिनात् सवनात्सोमोऽतिरिच्यते एष तृतीयसवनमेव
१. आश्व. श्रौ. ६. ७. २. २. ऋ. सं. ६. ६. २८.
३. ऋ. सं. ६. ६. २८. ४. ५. ८. ९. ५. सं. १. २. ७.
६. सा. सं. उ. ९. १. ९. १. ७. सा. सं. उ. ७. १. १. १.