सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 314, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 314

२९४ ताण्ड्यमहाब्राह्मणे
एवमैन्द्राबार्हस्पत्यैन्द्रावैष्णवयोरेप्युक्थस्तोत्रयोर्वैलक्षण्यमिन्द्रेण
प्रार्थितत्वादेवेत्याह—
स एवाब्रवीत्कश्चाहं चेदन्ववैष्याव इत्यहञ्चेति बृ-
हस्पतिस्तं बृहस्पतिरन्वतिष्ठदिन्द्र आहरत्तस्मादैन्द्रा-
बार्हस्पत्यमनुशस्यते स एवाब्रवीत्कश्चाहं चेदन्ववै-
ष्याव इत्यहञ्चेति विष्णुस्तं विष्णुरन्वतिष्ठदिन्द्र आहर-
त्त्तस्मादैन्द्रावैष्णवमनुशस्यते ॥ ७ ॥
पूर्ववद्योज्यम् । अयमर्थस्तैत्तिरीयके समाम्नायते 'ते देवा असुरा मै-
त्रावरुणस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानि तेऽसुरानन्ववै-
ष्याव इत्यहं चेत्यब्रवीद्वरुणः' इत्यादिना ॥ ७ ॥
अथ नित्यानामेवोक्थानामभिप्रायभेदात् पशुकामनार्थत्वमप्यस्तीत्याह—
पशून् वा एभ्यस्तानाहरत्पशवो वा उक्थानि पशु-
काम उक्थेन स्तुवीत पशुमान् भवति ॥ ८ ॥
एभ्योऽसुरेभ्यः सकाशाद्यान्युक्थान्याहरत् । एतान् पशूनेव ख-
ल्वाहरत् । कथमुक्थान्येव पशव इति ? तदुच्यते 'पशवो वा' इति ।
अतः पशुकाम उक्थेन स्तुवीत स्तौति चेत् पशुमान् भवत्येव तेषामु-
क्थरूपेण स्थितत्वादित्यभिप्रायः ॥ ८ ॥
एवं साकमश्वमुक्थमुक्त्वा सौभरं द्वितीयमुक्थं विधित्सुराह—
बृहता वा इन्द्रो वृत्राय वज्रं प्राहरत्तस्य तेजः परा-
पतत्तत्सौभरमभवत् ॥ ९ ॥
पूर्व्वमिन्द्रो वृत्रवधार्थं बृहता साम्ना वज्रं प्राहरत् । तस्य पतितं
तेजः सौभरं सामाभवत् ॥ ९ ॥
अथ सौभरप्रसङ्गादतिरात्रेऽपि ब्राह्मणाच्छंसिन उक्थं सौभरमेव
कार्य्यमिति विवक्षु रथन्तरपृष्ठे तावदतिरात्रस्य स्तुतिमाह—
जामि वा एतद्यज्ञे क्रियत इत्याहुर्यद्रथन्तरं पृष्ठं
रथन्तरं सन्धिर्नान्तरा बृहता स्तुवन्तीति यत् सौभ-
रेण स्तुवन्ति बृहतैव तदन्तरा स्तुवन्ति बृहतो ह्येतत्ते-
जो यत्सौभरम् ॥ १० ॥
पृष्ठसन्धिस्तोत्रे च रथन्तरस्य करणादन्तरा मध्ये बृहतैव स्तु-