सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 313, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 313

गन्तव्यः ॥ २ ॥
अथ तत्स्तोत्रीयाणां गायत्रीच्छन्दस्त्वं विधत्ते —
तस्मादु गायत्रीषु गायत्रच्छन्दा ह्यग्निः ॥ ३ ॥
तस्मादु—अग्निना वृतत्वादेव तर्ह्यस्तवाग्नेयीषूक्थानां स्तवनं गाय-
त्रत्वस्य कः सम्बन्ध इति? उच्यते। गायत्रच्छन्दा ह्यग्निरिति प्रजापते-
र्मुखात् सहोत्पन्नत्वादग्नेर्गायत्र्यभवदित्युक्तत्वाच्चाग्निर्गायत्रच्छन्दोऽभि-
मानी । आग्नेयस्य वृतत्वादाग्नेयच्छन्दसोऽपि सम्बन्ध इत्यर्थः ॥ ३ ॥
अथोक्तानि साकमश्वेन विधित्सुस्तत्साम निर्वचनद्वारा प्रशंसति-
तेऽग्निम्मुखं कृत्वा साकमश्वेनाभ्यक्रामन् यत्साकम-
श्वेनाभ्यक्रामँस्तस्मात् साकमश्वम् ॥ ४ ॥
ते देवा अग्निमेव मुखं पुरोगामिनं कृत्वाऽश्वेनाश्वरूपेणाग्निना
साकं सार्द्धमभ्यक्रामन् शत्रूनत्यक्रामयन् । यस्मादेवमकुर्व्वँस्तस्मा-
त्साकमश्वमिति तत् साम्नोनाम सम्पन्नम् ॥ ४ ॥
इदानीं तत्साम विधते—
तस्मात्साकमश्वेनोक्थानि प्रणयन्त्येतेन हि तान्य-
ग्रेऽभ्यजयन् ॥ ५ ॥
तस्मादित्यादि स्पष्टम्। तान्यक्षरसम्बन्धीन्यूक्थान्येतेन साम्नाऽभ्यज-
यन्नित्येतत्तस्मादित्यस्य विवरणम् । एतद्धि 'साकमश्वमेहेषुषु ब्रुवाणि ते'
इत्यादिष्वाग्नेयीषु गायत्रीषु क्रियते । सर्वेषु स्तोत्रेषु स्वसमानदेवत्यानि-
शस्त्राणि भवन्ति ॥ ५ ॥
उक्थेषु तु स्तोत्रीयानुरूपेभ्योऽनन्तरमन्या अन्या देवताः कथं
शस्यन्त इति? तत्समाधत्ते तत्रैन्द्रावरुणलक्षणं देवतावैलक्षण्यं परिहरति-
स इन्द्रोऽब्रवीत्कश्चाहञ्चेदमन्ववैष्याव इत्यहञ्चेति
ह्वरुणस्तं ह्वरुणोऽन्वतिष्ठदिन्द्र आहरत्तस्मादैन्द्रावारुण-
मनुशस्यते ॥ ६ ॥
देवानां मध्ये स इन्द्र एवमब्रवीत् । किमित्युच्यते? कश्च को देवः अहं
चेन्द्र इदं संग्राममुक्थजयार्थमनुक्रमेणावैष्यावोऽवगमिष्याव इति ।
अहं च त्वं चान्ववैष्याव इति वरुणोऽब्रवीत् । तमिन्द्रं वरुणोऽनु पश्चात्
सहायत्वेनातिष्ठत् । इन्द्रस्तु स्वयमेवाहरदानयदुक्थानि । यस्मादेवं
तस्मादैन्द्रावारुणमिन्द्रवरुणदेवताकं सूक्तमुक्तथस्तुतमनुशस्यते । अतो
वैलक्षण्यमित्यर्थः ॥ ६ ॥