सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 279, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 279

सप्तमाध्याये नवमः खण्डः । २६९
अथ ततो रैवतात्पत्तिमाह ।
स रेवतीरसृजत तद्गवां घोषोऽन्वसृज्यत ॥१३॥
नन्वत्र रेवतीनामेव सृष्टिराम्नायते । उत्तरं वारवन्तीयमेव वार-
वन्तीनां स्तोत्रीयासु विधास्यति । सूत्रकारेणापि वारवन्तीयस्य स्तोत्रे 'धे-
नुः सम्वासयेयु'रित्याह ? नैष दोषः । अत्र रेवतीवारवन्तिययोर्विकल्पमेके
ब्रुवते । अन्ये तु रेवतीशब्देन स्तोत्रीया उच्यन्त इत्याहुः । निदानञ्च 'षष्ठे-
हनि रेवतीषु वारवन्तीयं पृष्ठं भवती'ति रेवतीनां गायत्रीत्वात्ततो रैव-
तसृष्टिसम्बन्धः ॥ १३ ॥
उक्तमर्थं संग्रहेण दर्शयति-
एतैर्वा एतानि सह घोषैरसृज्यन्त ॥ १४ ॥
एतैर्वा उक्तैः खलु घोषै रथादिसम्बन्धिभिः सहैतानि रथन्तरा-
दीन्यसृज्यन्तेति घोषाणां सह सृष्टिप्रयोजनं पूर्वमुक्तम् ॥ १४ ॥
उक्तार्थवेदनफलमाह-
सर्व्वेऽस्मिन् घोषाः सर्व्वाः पुण्या व्वाचो व्वदन्ति
य एवँ वेद ॥ १५ ॥
अस्मिन् वेदितरि-एनं विषयीकृत्येत्यर्थः । सर्व्वाः पुण्या इत्युक्तस्य
विवरणं पुण्या वाच एनमुच्चरन्तीत्यर्थः ॥ १५ ॥
इति ताण्ड्यमहाब्राह्मणे सप्तमाध्यायस्याष्टमः खण्डः ।
अथ नवमः खण्डः ।
अथोक्तसम्बन्धमपेक्ष्य पृष्ठानां वामदेव्यत्वेन तदेव प्रशंसति-
पिता वै व्वामदेव्यं पुत्राः पृष्ठानि ॥ १ ॥
स्पष्टम् ॥ १ ॥
कुत इति तदुपपादयति-
एतस्माद्धा एतानि योनेरसृज्यन्त ॥ २ ॥
एतस्माद्वामदेव्ययोनेः सकाशाद्भवत्येवम् ॥ २ ॥
किं तत इत्याह-
तस्मात् पृष्ठानाꣳस्तोत्रं व्वामदेव्येनानुष्टुवन्ति शा-
न्त्यै ॥ ३ ॥
यस्मादेवन्तस्मात् षण्णामपि पृष्ठानां स्तोत्रं वामदेव्येन स्तुवन्ति ।
पृष्ठस्तोत्र