ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 278, कुल 518 में से
संदर्भ में पढ़ें२६८ ताण्ड्यमहाब्राह्मणे
स प्रजापतिर्गायत्रीभ्य उत्पन्नाद्वामदेव्याद्वा रथन्तरं पृष्ठं प्रथम-
मसृजत। तत् पृष्ठमनु रथस्य घोषोऽन्वसृज्यत। नचानर्थकोऽयं रथघोषः
सृष्ट्युपन्यास इति मन्तव्यं सप्रयोजनत्वात्। तथा हि रथन्तरमनुसृ-
ष्ट्योत्पन्नत्वात्पृष्ठस्य प्रथमेऽहनि रथन्तरं रथघोषेणोपाकुर्वन्ति। वाम-
देव्ययोने रथन्तरपृष्ठोत्पत्तिप्रकार इत्थं ज्ञातव्यः। रथन्तरस्य बार्हतप्र-
कार इत्थं ज्ञातव्यः। रथन्तरस्य बार्हतप्रगोथो योनिस्तत्र प्रथमायां त्रयो
गायत्र्याः पादा एकश्च जागतः। द्वितीयायां विष्टारपङ्क्तौ द्वौ गायत्रौ
पादौ द्वौ च जागतौ। अतो वामदेव्याधारायामृचि गायत्रीपादसद्भा-
वाद्गायत्र्यामुत्पन्नमित्युच्यते। साम्नः साम्नोत्पत्तिपक्षेऽपि स्तोत्रियद्वारा
पूर्वोक्त एव सम्बन्धः॥ ९॥
अथ बृहद्वैरूपयोर्गायत्रीयोनेः सकाशात् सृष्टिमाह—
स बृहदसृजत तत्स्तनयित्नोर्घोषोऽन्वसृज्यत स
वैरूपमसृजत तद्वा तस्य घोषोऽन्वसृज्यत ॥ १० ॥
बृहद्वैरूपयोरपि बार्हतप्रगाथाभ्यामेवोत्पत्तेस्तयोः पूर्ववद्गायत्रीपा-
दसद्भावाद्गायत्र्या एवोत्पत्तिस्तनयित्नुघोषेण बृहतः स्तुत्यशक्यत्वात्त-
त्समानेन दुन्दुभिघोषेणोपाकरणम्। तथा वा तद्घोषस्य रूपान्तरं
सृष्टत्वादुपवाजमाना वैरूपेण स्तुवीरन्नुपवाजमाना वा ॥ १० ॥
अथोक्तसाधनाद्वैराजसृष्टिमाह—
स वैराजमसृजत तदग्नेर्घोषोऽन्वसृज्यत ॥११॥
राजगानासम्भवादग्