ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 277, कुल 518 में से
संदर्भ में पढ़ेंसप्तमाध्याये अष्टमः खण्डः । २५७
को हि कशब्दवाच्यः खलु कोऽहं स्यामिति 'को हं वै नाम प्रजापति'रि-
ति तैत्तिरीयकम् । तथाऽनिरुक्तास्वस्पष्टदेवताविशेषासूक्तास्वेवर्क्षु
गीयते । अतोऽप्येतत्प्राजापत्यं तत् समर्थितम् । अनिरुक्तो हि प्रजापतिर्-
निरुक्तत्वं सर्व्वरूपत्वेनावशिष्टविशेषरूपत्वाभिप्रायम् ॥ ३ ॥
अग्नेर्भागं दर्शयति ।
यद्गायत्रीषु तेनाग्नेयं गायत्रच्छन्दा ह्यग्निः ॥ ४ ॥
यत् 'कयान' इत्यादिषु गायत्रीषु गीयते तेन तदाग्नेयं भवति॥ ४ ॥
यत् पृष्ठेषु न्यदधुस्तेनैन्द्रं सर्व्वाणि हि पृष्ठानीन्द्र-
स्य निष्केवल्यानि ॥ ५ ॥
यद्यस्माद्वामदेव्यं पृष्ठेषु न्यदधुस्तेनैतदैन्द्रं भवति । कुत ? इत्याह
सर्व्वाणि हि पृष्ठानि चत्वारीन्द्रस्य निष्केवल्यान्यसाधारणानि ॥ ५ ॥
अथास्य मित्रावरुणयोर्भागमाह ।
यन्मैत्रावरुणोऽनुशंसति तेन मैत्रावरुणम् ॥६॥
यद्यस्मान्मैत्रावरुणदैवत्यशस्त्रे वामदेव्यमनुशंसति तेन मैत्रा-
वरुणमिति 'तेन वामदेव्यमग्नेर्गायत्रमवदिति' श्रुतेः ॥ ६ ॥
अथेन्द्रस्य भागं दर्शयत्यथैतस्य वैश्वदेवत्वमाह—
यद्बहुदैवत्यमुत्तमं पदं तेन वैश्वदेवं सर्व्वेष्वेव
रूपेषु प्रतितिष्ठति ॥ ७ ॥
यद्यस्मादुत्तमं पदं वामदेव्यतृचस्यान्तिमं 'शतं भवा स्यूतये' इत्ये-
तत्पदं बहुदैवत्यन्तेन तद्वैश्वदेवमित्युक्तररीत्या सर्व्वेष्वेवरूपेषु
सर्व्वदेवतासम्बन्धिषु प्रतितिष्ठति प्रतिष्ठितं भवति ॥ ७ ॥
अथ वामदेव्याद्रथन्तरादिसृष्टिं विवक्षुस्तत्साधनत्वेन वामदेव्य-
योनिभूतां गायत्रीमुपदिशन्नाह—
प्रजापतिर्वा एतां गायत्रीं योनिमपश्यत्स आदी-
धीतास्माद्योनेः पृष्ठानि सृजा इति ॥ ८ ॥
प्रजापतिः खल्वेतां 'कयान' इतीमां गायत्रीं योनिं वामदेव्यस्य
योनिभूतामपश्यत् । दृष्ट्वा च स प्रजापतिरादीधीताध्यायत् । किमिति?
अस्माद्गायत्रीरूपायोनेः पृष्ठानि षडपि सृजै इति सृजानीति ॥ ८ ॥
अथोक्तसाधनाद्रथन्तरसृष्टिमाह—
स रथन्तरमसृजत तद्रथस्य घोषोऽन्वसृज्यत ॥ ९ ॥