सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 276, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 276

उच्यते। हे मर्य्या वाममिदं धनं सामलक्षणं देवेष्वाजनि उदभूदिति
तस्मादेवं ताभ्यामुक्तत्वाद्व्रामदेव्यमिति तन्नाम सम्पन्नम् ॥ १ ॥
अथोत्पन्नं वामदेव्यं सर्वदेवतासम्बन्धद्वारेण प्रशंसति—
तत्परिगृह्नन्तावब्रूतामिदमविदावेदन्नौमाभ्यर्त्तिदूव-
मिति तत्प्रजापतिरब्रवीन्मद्धा एतदद्ध्यजनि मम वा
एतदिति तदग्निरब्रवीन्मा वा एतदन्वमजनि मम वा
एतदिति तदिन्द्रोऽब्रवीच्छ्रेष्ठस्था वा एतदहं वः श्रेष्ठो-
ऽस्मि मम वा एतदिति तद्विश्वे देवा अब्रुवन्नस्मद्दे॒वत्यं
वा एतद्यदद्भ्योऽधि समभूदस्माकं वा एतदिति तत्प्रजा-
पतिरब्रवीत्सर्व्वेषांन्न इदमस्तु सर्व्व इदमुपजीवामेति त-
त्पृष्ठेषु न्यदधुः सर्व्वदेवत्यं वै व्यामदेव्यम् ॥२॥
तद्वसु परिगृह्णन्तौ मित्रावरुणावब्रूतामिदं वस्वविदाव । आवां
लब्धवन्तौ स्व अत इदं नौ—आवाभ्यामेव। अतो हे देवा अभ्यर्त्ति-
दूवं नो अतिबाधध्वमित्यब्रूताम्।एवमुक्ते तद्वसु प्रजापतिरब्रवीत्।एतद्व-
सु मदधि मत्तोऽजनि प्रादुरभूत् । अतो ममैव खल्वेतदिति । तदेव धनं
प्रत्यग्निरैवाब्रवीदेतद्वसु मामनु खल्वजनि । 'अग्नेराप' इति श्रुतेर-
ग्न्यनन्तरमाप उत्पन्नास्ताभ्योऽस्योत्पन्नतत्वादित्यभिप्रायः । ममैवैतदिति
तथा तद्धनमिन्द्रोऽब्रवीदेतद्धनं श्रेष्ठस्था वै श्रेष्ठे तिष्ठतीति श्रेष्ठस्थाः ।
तिष्ठतेः'सर्वधातुभ्योऽसुन्नि'त्यसुन् प्रत्ययो व्यत्येन पुल्लिङ्गता । श्रेष्ठविषयं
ह्येतद्वामदेव्यम् । अहञ्च वो युष्माकं मध्ये श्रेष्ठोऽस्मि–अतो ममैवैतदिति ।
तदेव धनं विश्वे देवा अपां सर्वदेवत्यत्वात् तत्रोत्पन्नं धनमस्मद्देवत्यम् ।
अतोऽस्माकमेवेत्युक्तवान् । एवं वसुविषयं विवदमानेषु सत्सु प्रजाप-
तिरब्रवीत् । इदं धनन्नः सर्वेषामस्तु । अतः सर्व्वमिदं धनमुपजीवा-
मेति । एवमुक्ते तद्वामदेव्यं धनं पृष्ठेषु रथन्तरादिषु न्यदधुर्देवाः । अतः
इदं वामदेव्यं सर्व्वदेवत्यं वै ॥ २ ॥
एतदेव विभज्य दर्शयितुमादौ प्रजापतेर्भागं दर्शयति ।
यत्कवतीषु तेन प्राजापत्यं को हि प्रजापतिर्यदनि-
रुक्तासु तेन प्राजापत्यमनिरुक्तो हि प्रजापतिः ॥ ३ ॥
यत् कवतीषु कशब्दोपेतासु 'कया न' इत्यादिषु तिसृषु गायति
तेन तत्साम प्राजापत्यम् । उक्तस्यैव समर्थनं कोहीति । यः प्रजापतिः स