ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
DevanagariSanskritpublished518 पृष्ठ
पृष्ठ 234, कुल 518 में से
संदर्भ में पढ़ेंपृष्ठ 234
२१४ ताण्ड्यमहाब्राह्मणे
सकृद्धिङ्कृताभिः पराचीभिः स्तुवन्ति सकृद्धीतो ऽसौ
पराङ्लोकः ॥ १५ ॥
बहिष्पवमानेन स्तुवन्तीति यत् एतत् अमुष्मै स्वर्गायैव स्तुवन्ति ।
अत आदौ सकृद्धिङ्कृताभिः पराचीभिः स्तोत्रीयाभिः स्तुवन्ति । इतो
अस्माल्लोकादसौ स्वर्गो लोकः सकृद्धि तर्हिर्हि गम्यते । पराङ् परा-
ङ्मुखः खलु हिङ्कारस्य सकृत्वं स्वर्गस्य सकृत्वे प्रयोजकम् । तथा
स्तोत्रीयाणां पराक्त्वं स्वर्गस्यास्माल्लोकात्पराग्रूपत्वे ॥ १५ ॥
अथाज्येषुक्ववैपरीत्यं दर्शयति—
अस्मै वा एतल्लोकाय स्तुवन्ति यदाज्यैः पुनर-
भ्यावर्त्तं स्तुवन्ति तस्मादयँल्लोकः पुनः पुनः प्रजा-
यते ॥ १६ ॥
यत् पुनरभ्यावर्त्तमाज्यैः स्तुवन्ति एतदस्मै भूर्लोकाय