ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 235, कुल 518 में से
संदर्भ में पढ़ें[Page Header]
षष्ठाध्याये नवमः खण्डः । २१६
नस्यान्तिमां स्तोत्रीयां रथन्तरवर्णां रथन्तरोपेतवर्णां भकारां उद्गीथो-
पक्रमेण तद्वदिमां गायेत् । तथा च सूत्रम् 'रथन्तरवर्णायां चत्वार्यर्थंक्षग-
ण्यग्निष्टोमेन्द्राम्रा इति शाण्डिल्यो भभ इति धानञ्जय इतीति' एवमपि
कथं प्रच्युत्यभाव इति चेत् ? तत्राह । रथन्तरं साम तदिदं वै पृथिव्ये-
व। तथा सति तत्त वर्णकरणेनास्यामेव पृथिव्यां प्रतितिष्ठति ॥ १८ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य अष्टमः खण्डः ।
अथ नवमः खण्डः ।
अथ स्तोत्राणां प्रतिपद् विचार आरभ्यते, तत्र ग्रामकामस्य प्रति-
पदं विधत्ते-
'उपास्मै गायता नर' इति ग्रामकामाय प्रतिपदं
कुर्यात् ॥ १ ॥
ग्रामार्थिने उपवतीं प्रतिपदं कुर्यात् । प्रतिपदिति प्रथमस्तृचमेव स
एव स्तोत्रीय इति चोच्यते । इयं प्रतिपत् यद्यपि नित्याग्निष्टोमप्रकरणे
स्तोत्रीयासु सामाम्नाता तथापि कामसम्बन्धात् तत्रैव ग्रामार्थापि
भवति । ततो न पृथक्कामभेदेन प्रयोगापेक्षास्ति । तथा पयःसाधनके
नित्याग्निहोत्रप्रयोगे पयसा पशुकामस्य जुहुयादिति पशुफलसाधनत्वं
तद्वदिहापि । ननु प्रकरणादस्या नित्यत्वावगतिः । काम्यत्वं तु 'ग्रामका-
माय प्रतिपदमिति' प्रतिपदमिति वाक्येन । अतः प्रकरणस्य दुर्बलत्वात्
कथं नित्येन काम्यसिद्धिरिति ? सत्यम् । तथापि नित्यप्रयोगार्थप्रति
पदन्तराभावेन गत्यभावाद्वाक्यादपि प्रकरणमेव प्रबलामिति मन्तव्यम् ।
केचिदिदं तृचं काम्यप्रयोग एवेत्याहुः ॥ १ ॥
उक्तप्रतिपदि नर इत्यस्य सद्भावात् ग्रामकामायोचितेत्याह-
नरो वै देवानां ग्रामो ग्राममेवास्मा उपाकः ॥ २ ॥
नरो मनुष्याः खलु देवानां ग्रामः । अत्र नर इति यजमाननर ऋत्विज
उच्यन्ते। ग्राम इति निवासाश्रयः। अतो देवानां यागनिष्पादनद्वारा नरो
ग्रामः। तथा सति नरशब्दोपेतां उपास्मा इत्येतां प्रतिपदं युञ्जन् उद्गाता
अस्मै यजमानाय ग्राममेवोपाकः उपायनीयः कृतवान् भवति ॥ २ ॥
उपेति पदस्य परम्परया ग्रामार्थत्वादपि तत्कामस्येयमुचितेत्याह-
उप वा अन्नमन्नमेवास्मा उपाकः ॥ ३ ॥
अत्तुः समीपे नियतमन्नस्यावस्थानात्समीपवाचिनोपशब्देन समी-
पस्थमन्नमुच्यते। तदपि व्रीह्यादिरूपमन्नं ग्रामः समीप एव केदारादौ