सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 233, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 233

षष्ठाध्याये अष्टमः खण्डः । २१३

अथ बहिष्पवमानमन्तःशंसनद्वारेण प्रशंसति—
बहिः स्तुवन्त्यन्तरनुशᳪसन्ति तस्माद्ग्रामादाहृतै-
र्भुञ्जते ॥ ११ ॥
बहिर्वेदि स्तुवन्त्यन्तर्वेदि स्तुतमनुशंसन्ति होतारः । सामान्यवि-
वक्षया बहुवचनम् । यस्मादेवं तस्माद्ग्रामं प्रत्याहृतैरर्थैर्व्रीह्यादिभिर्म-
नुष्या भुञ्जते ॥ ११ ॥
अथ प्रसङ्गादाज्यस्तोत्राणि विषयीकृत्याह--
ग्राम्येभ्यो वा एतत् पशुभ्यः स्तुवन्ति यदाज्यैर्नाना
रूपैः स्तुवन्ति तस्मान्नानारूपा ग्राम्याः पशवः ॥ १२ ॥
नानारूपैराज्यस्तोत्रैर्नानादैवत्यैः स्तोत्रैरित्यर्थः । तथाहि अग्नियं हो-
तुराज्यं मैत्रावरुणं मैत्रावरुणस्यैन्द्रं ब्राह्मणाच्छंसिन ऐन्द्राग्नमच्छावा-
कस्येति नानारूपाणि । तस्मादाज्यानां वैरूप्याद् ग्राम्याः पशवो नानारू-
पाः । तथाहि 'पुरुषोऽश्वो गौरविरजोगर्द्दभोऽश्वतर' इति सप्तापि पशवः
प्रत्येकं नानारूपाः ॥ १२ ॥
अथ आज्यस्तोत्राणामावृत्तिं प्रशंसति—
पुनरभ्यावर्त्तᳪ स्तुवन्ति तस्मात्प्रेत्वर्य्यः प्रेत्य पुन-
रायन्ति ॥ १३ ॥
पुनः पुनरभ्यावृत्त्याभ्यावृत्य स्तुवन्ति । अनेन पर्यायेष्टत्वमावृत्तिश्चो-
तकेन विज्ञातम् । शिष्टऋचांपराक्त्वं पर्यायेषु प्रत्येकं चावर्त्तनत्वमित्यु-
भयमप्युक्तं भवति। तस्मात्पराक्त्वात् प्रेत्वर्य्यः प्रगमनशीला गावः प्रातः-
काले भवन्ति । तस्मादभ्यावृत्तेः सद्भावाच्च प्रेत्य चारार्थं गत्वा पुनरा-
यन्ति सायंकाले । गोरपेक्षया प्रेत्वर्य्य इति स्त्रीलिङ्गता ॥ १३ ॥
अथाज्यस्तोत्राणां परिश्रितप्रदेशसम्बन्धं प्रशंसति—
परिश्रिते स्तुवन्ति तस्मात् परिगृहीता ग्राम्याः
पशवः ॥ १४ ॥
आज्यैः परिश्रिते सदसि स्तुवन्ति इतरत् सुज्ञानम् । अत्र सर्वत्र
तत्तत् स्तुत्या तत्तद्विषयोऽवगन्तव्याः ॥ १४ ॥
अथ बहिष्पवमान एवापक्रम्याह—
अमुष्मै वा एतल्लोकाय स्तुवन्ति यद्बहिष्पवमानᳪ